________________
दशवैकालिकं-टीकात्रिकयुतम् अङ्गानां क्रमतः स्थितिं गुरुतया, विज्ञाय चिच्चक्षुषा,
वृद्धायाः श्रुतसम्पदोऽनुसमयं, यान्त्याः प्रभोराज्ञया । यावद् दुःप्रसभाभिधं गुरुमतो हस्तावलम्बं ददौ, - यः कृत्वा दशकालिकं मुनिपतिः शय्यम्भवः सोऽवतात् ।।४।।
- शार्दूलविक्रीडितम् शय्यम्भवस्य श्रुतरत्नसिन्धोः, सर्वस्वभूतं दशकालिकं यत् । उत्पाद्य बह्वर्थ-सुवर्णकोशं, तद्भव्यसुग्राह्यमहं करोमि ।।५।। इन्द्रवज्रा इह सर्वेऽपि शास्त्रकाराः सुविदितसुकविसमयसमाचाराः शास्त्रादौ दर्शिताखिलप्रबलप्रत्यूहव्यूहापहारसमुचितेष्टदेवतानमस्काराभिधेयसम्बन्धप्रयोजनोल्लेखं निर्मापितानेकमङ्गलशतसहस्राश्लेषमभिमुखीकृतसकलश्रोतृलोकं श्लोकं लिखन्ति, परं क्रियमाणेष्वपि शतकृत्वोऽपि मङ्गलेषु यदि कर्ता न प्राग्भवे प्रशमितकर्मधर्मः शुद्धो धर्मः कृतः स्यात् तत्तन्मनोरथा प्रमाणपदवीमदवीयसीमधिरोहति । धर्मस्यैव निखिलमङ्गलाभ्युदयहेतुत्वात् ।।
अत एव पूज्यश्रीशय्यम्भवसूरिमिश्रा अपि दशवैकालिकश्रुतस्कन्धप्रारम्भेऽभिधेयसम्बन्धप्रयोजनानुगं मङ्गलार्थं धर्ममेवोपश्लोकयन्ति स्म ।।
तथा हि -
"
१. अङ्गारी स्थित गुरुत्वं विज्ञाय [अङ्गोनी स्थिति सारी रीते जाणीने] इति कृतं एतत् दशकालिकं कृतं शय्यम्भवः सूरिवृद्धश्रुतसम्पदः प्रति समृद्धं याति ८ टि. ||२. गरिष्टतया ६ टि. ।। ३. ज्ञानचक्षुषा ६ टि. ।। ४. दूपसहाचार्यनामानं गुरुं विज्ञाय ६ टि., दुपसहसूरितांई [सुधी] दशवीकालिक रहसी ८ टि. ।। ५. सर्वसारभूतं वर्तते ६ टि., सर्व आगम सारांस वागमस्य प्रमाणनीयं एतत्-अर्थ भलो सुग्राह्यमहं करोमि ८ टि. ।। ६. उद्वाच्य ८, उद्वाट्य १० ।। ७. दूषणोर्मिबहिर्भूतैर्गुणरत्नगणैःश्रितम् । संसारवारिधेस्तीरं, वीरजिनमुपास्महे ।। हस्तः शस्तः सदा येषां, भास्वद्योगप्रभावतः | कल्पितार्थफलस्तेभ्यः, श्रीगुरुभ्यो नमो नमः || ३ प्रतौ टिप्पण्यां एतौ द्वौ श्लोकावधिकौ ।। ८. प्रबल = घणो प्रत्यूह = विघ्न तस्य व्यह समह तस्यापहारं दरं करणो तस्य हेतो इष्टदेवतानमस्कारकतवान तदनन्तरमभिधेयादिज्ञाप टि. ।। १३.०रि ५-११ ।। ९. प्रकाशनम् २ टि., कथनम् ६ टि. ।। १०. शतेषु मङ्गलेषु कृतेषु अपि, यदि पूर्वभवे प्रशमितकर्मतापः एतादृशः शुद्धो धर्मः न कृतः, तदा मनोरथप्रमाणपदवी न घणी पामे धर्मात् एव मनोरथानि सम्पूर्णान् प्राप्नोति ९ टि. || ११. पूज्या ८ टि. ||