________________
नमोत्थु णं समणस्स भगवओ वद्धमाणस्स
।। अनन्तलब्धिनिधानश्रीगौतमस्वामिने नमः || पू. श्रीदान-प्रेम-रामचन्द्र-भद्रङ्कर-राजतिलक-महोदय
जिनप्रभ-पुण्यपाल-हेमभूषणसूरि गुरुभ्योनमः श्री तिलकाचार्य-समयसुंदरगणि-सुमतिसाधुसूरि
विरचित टीकात्रिकयुतम् || श्री दशवैकालिकसूत्रम् ।। तिलका.- अर्हन्तः प्रथयन्तु मङ्गलममी, शृङ्गारयन्तः सदा,
पादाम्भोजरजःकणैः क्षितिवधूं, 'काश्मीरलेशैरिव । तत्त्वार्थैकविदां सुवर्णरचनामाकर्ण्य येषां मुखात्, तत्तद्भावनया रसेन लभते, कल्याणकोटिं जनः ।।१।।
शार्दूलविक्रीडितम् देवः केवलसम्पदे भवतु वः, श्रीनाभिराजाङ्गभू
जित्वा योऽत्र जगत्त्रयीविजयिनं, 'श्रीकामराजेश्वरम् । आदत्ताऽऽतपवारणत्रयमिदं केनाप्यवार्यं ततस् - तन्मूर्तेरपि मूर्ध्नि सर्वविदितं निर्मीयतेऽद्यापि तत् ।।२।।
. शार्दूलविक्रीडितम् यज्जन्मस्नात्रकाले विमलजलभरेष्वासमन्तात् पतत्सु,
स्वर्णाद्रियोजनास्योज्ज्वलकलशमुखान्निर्गतेष्वन्तरस्थः । भ्रेजे भ्राजिष्णुर्दभ्राऽभ्रकगृहकलसद्दीपवद्दीप्यमानः,
स. स्वामी वीरनामा किशलयतुतमामङ्गिनां मङ्गलानि ।।३।। स्रग्धरा
१.केशरैरिव ६.८.टि. ।। २. कल्याणं शिवं कनकं च, तस्य कोटिं ३. कन्दर्पम् ।। ४.जिनमूर्तेरपि,५. छत्रत्रयम ।। ६. अमलजलपटले० ।। ७. योजनप्रमाणनालचवाला, २५ योजनऊंचा, १२ योजनविस्तारवाला, १.६०.००.००० सङ्खयकउज्ज्वलकलश १० ।। ८.०शुभ्रा. ११ दभ्र = पतलो मोडलरो [अबरखनु घर तिनके विषे गत ८ टि., मुद्रित १० टि. ।। ९. गृहगतसद् २.५-११ ।। १०. पल्लवयतुतमाम्.६ टि. ।।