________________
द्वितीयम् अध्ययनम् विषयाभिलाषी समागतोऽहं तत्पार्श्वे, दुष्टं चेष्टितमत इतः स्थानादेव व्रजाम्यहं गुरूणामन्तिके, ततः सा तं प्रत्यवादीत्-मुने ! शोभनमुक्तवानसि, यतः असारा विषयाभिलाषाः, करिकलभश्रवणमिव चञ्चलमायुः, प्रतिक्षणध्वंसी देहः, अकृतधर्माणां ध्रुवो नरकपात इत्यादि तमनुशिष्य, कथयित्वा चात्मानं, सञ्जातवैराग्यं तं प्रेषयामास गुरूणामन्तिके, स्थिरीभूतश्च कृतवान् प्रव्रज्यां, एवमात्मा सन्धारणीयो यथा तेनेति ||२.४।।
आयावयाहि, चय सोगमल्लं, कामे कमाहिं कमिअं खु दुक्खं । छिंदाहिं दोसं विणइज्ज रागं, एवं सुही होहिसि संपराए ।।२.५।।
(ति.) किञ्च-मनसो बहिरनिर्गमार्थं आतापय-आतपे कायोत्सर्गं कुरु । न्यूनोदरतादितपसा वा आतापनां कुरु, त्यज सौकुमार्यम् । कामान्-शब्दादिविषयान । क्राम-उल्लङ्घय । तैः क्रान्तैरुल्लङ्घितैः क्रान्तमेव-निवर्तितमेव विषयाप्राप्तिजनितं दुःखं, छिन्द्धि द्वेष-विरूपशब्दादिषु । विनयेथाः राग-प्रियङ्करशब्दादिकामविषय | एवं रागद्वेषादि-विजयात् सुखी भविष्यसि । सम्पराये-संसारेऽपि सन् अथवा सम्परायेपरीषहोपसर्गसङ्ग्रामे । एते गुरोः शिष्यं प्रत्युपदेशाः ।।२.५।। __ (स.) एवं तावदान्तरो मनोनिग्रहाविधिरुक्तः, न चायं विधिर्बाह्यमंतरेण कर्तुं शक्यते, अतो बाह्यविधिविधानार्थमाह-आयावयाहीति-'आयावयाही' त्वं संयमगृहान्मनसोऽनिर्गमनार्थमातापय? आतापनां कुरु ? उपलक्षणत्वाद्यथानुरूपमूनोदरिकादितपोऽपि कुरु ? तथा त्यज सौकुमार्यं सुकुमारत्वं परित्यज ? यतः सुकुमारत्वात् कामेच्छा प्रवर्तते, योषितां च प्रार्थनीयो भवति, एवमुभयाऽसेवनेन कामान् काम उल्लङ्घय ? यतस्तैः कामैः क्रान्तैर्दु:खं क्रान्तमेव भवति, अत्र वणिज उदाहरणं ज्ञेयं वृत्तितः, अथान्तरकामक्रमणविधिमाह-छिन्धि द्वेषं ? व्यपनय रागं ? सम्यग्ज्ञानबलेन विपाकालोचनादिना, एवं कृते फलमाह-एवमनेन प्रकारेण प्रवर्तमानः सन् सुखी भविष्यसि, क्वं ? संपराये संसारे यावन्मोक्षं न प्राप्स्यसि तावत्सुखी भविष्यसि ||२.५।।
(सु.) एवं तावदान्तरो मनोनिग्रहविधिरुक्तो, न चायं बाह्यमन्तरेण कर्तुं शक्यते,
१.०हि ७.१२, ही ८-१० ।।२.०हि ५-१२ ।। ३. क्रम २, क्रामय ६-१० ।। ४. उल्लङ्घितमेव विषयजं दुःखम् ८ टि. ।। ५. विनयस्व ५-१० ।। ६.०ति १.४ ।। ७. च ८ ।।