________________
२५०
उदउल्लं अप्पणो कायं, नेव पुंछे न संलिहे । समुप्पेह तहाभूयं, नो णं संघट्टए मुणी ।।८.७ ।।
दशवैकालिकं- टीकात्रिकयुतम्
(ति.) उदकार्द्रम् - नद्युत्तरणे बहिर्गतस्य वा वृष्टौ । आत्मनः कायं नैव पुंछे - 'पुसः अभिमर्दने' [पा.धा. .१७३७] नैव पुंसेत् नाभिमर्दयेत् वस्त्रतृणादिना । न संलिखेत्पाणिना। समुत्प्रेक्ष्य। तथाभूतम् - जलक्लिन्नम् । नैनं सङ्घट्टयेत् मुनिः । । ८.७ । ।
(स.) उदउल्लं'इति-पुनर्मुनिर्नदीमुत्तीर्णो भिक्षायां प्रविष्टो वा वृष्टिहत उदकार्द्रमुदकबिन्दुव्याप्तमात्मनः कायं शरीरं सस्निग्धं वा नैव पुञ्छयेत्, वस्त्रतृणादिभिर्न संलिखेत्, पाणिना हस्तेनापि, किं कृत्वा ? समुत्प्रेक्ष्य निरीक्ष्य, तथाभूतमुदकार्द्रादिरूपं कायं नैनं संघट्टयेत्, मनागपि न संस्पृशेत्. उक्तोऽप्कायविधिः ।।८.७ ।।
(सु.) तथा उदउल्लं इति, नदीमुत्तीर्णः भिक्षाप्रविष्टो वा वृष्टिहतः उदकार्द्रउदकबिन्दु-चितमात्मनः कायं शरीरं, सस्निग्धं वा नैव पुञ्छयेद् वस्त्रतृणादिभिः न संलिखेत् पाणिना-हस्तेन, अपि तु संप्रेक्ष्य - निरीक्ष्य तथा भूतमुदकार्द्रादिरूपं नैव कार्य संघट्टयेन्मुनिर्मनागपि न संस्पृशेदिति । उक्तोऽप्कायविधिः ।।८.७।।
इंगालं अगणि अच्चि, अलायं वा सजोइयं ।
न उंजिज्जा न घट्टिज्जा, नो णं निव्वावए मुणी ।।८.८ ।।
( ति.) अथ तेजस्कायविधिमाह - अस्यार्थः प्राग्वत् ।।८.८ ।।
(स.) अथ तेजस्कायविधिमाह – इङ्गालं 'इति-मुनिरग्निं प्रत्येवं न कुर्यात्, एवं किम् ? - इत्याह-अङ्गारं ज्वालारहितम्, अग्निं - अयःपिण्डातानुगं तथार्चिः प्रदीपादेश्छिन्नज्वाला, तथा अलातमुल्मुकं वा सज्योतिः साग्निकमित्यर्थः किम् ?इत्याह-नोत्सिञ्चेन्न घट्टयेत्, तत्रोत्सिञ्चनसुत्सेचनं प्रदीपादेर्घट्टनं मिथश्चालनं, तथा नैनमग्निं निर्वापयेदभावमापादयेत् इति तेजस्काय उक्तः ।।८.८ ।।
(सु.) तेजःस्कायविधिमाह–इंगालिं इति, अङ्गारं ज्वालारहितं, अग्निं-अयःपिण्डानुगं, अर्च्चिः-छिन्नज्वाला, अलातं - उल्मुकं वा सज्योतिः साग्निकमित्यर्थः, किम् ?-इत्याहनोत्सिञ्चयेन्न घट्टयेत्, तत्रोञ्जनमुत्सेचनं प्रदीपादेः घट्टनं - मिथश्चालनं, तथा नैनमग्निं निर्वापयेत्-अभावमापादयेन्मुनिः - साधुरिति । प्रतिपादितस्तेजःकायविधिः ।।८.८ ।। १. ‘पुंस्' तु चुरादिकः, तथापि 'अनित्यो णिचू चुरादीनाम्' इति न्यायात् 'पुंसेत्' इति नाऽसाधु ।।