________________
२५१
अष्टमम् अध्ययनम्
तालविंटेण पत्तेण, साहाविहूयणेण वा । न वीइज्ज अप्पणो कायं, बाहिरं वा वि पुग्गलं ।।८.९।। (ति.) अथ वायुकायविधिमाह-[तालि...इति] अस्याप्यर्थ प्राग्वत् ।।८.९ ।।
(स.) अथ वायुकायविधिमाह-तालिअंटेण...इति-मुनिरात्मनः कायं न वीजयेद्बाह्यं वापि पुद्गलमुष्णोदकादि, केन न वीजयेत् ? इत्याह-तालवृन्तेन व्यजनविशेषेण, तथा पत्रेण पद्मिनीपत्रादिना तथा शाखया वृक्षडालरूपया विधूपनेन व्यजनेन वा. इति वायुकायविधिः प्रतिपादितः ।।८.९।।
(सु.) तालियंटेणं'इति, तालवृन्तेन-व्यजनविशेषेण, पत्रेण-पद्मिनीपत्रादिना, शाखयावृक्षडालरूपया विधूवनेन वा-व्यजनेन वा, किम् ?-इत्याह-न वीजयेदात्मनः कायंस्वशरीर-मित्यर्थः, बाह्यं वापि पुद्गलं-उष्णोदकादीति, प्रतिपादितो वायुकायविधिः ||८.९।। तणरुक्खं न छिंदिज्जा, फलं मूलं च कस्सई । आमगं विविहं बीयं, मणसा वि न पत्थए ||८.१०।। (ति.) वनस्पतिकायविधिमाह- तणरुक्खं...इति] स्पष्टः ।।८.१० ।।
(स.) अथ वनस्पतिकायविधिमाह-तण...इति-साधुस्तृणवृक्षं न छिन्द्यात्, तत्र तृणानि दर्भादीनि, वृक्षाः कदम्बादयः, तथा वृक्षादेः कस्यचित् फलं मूलकं वा न छिन्द्यात् तथा आमकं शस्त्रेण यन्नोपहतम्, एवंविधं विविधमनेकप्रकारं बीजं साधुर्मनसापि न प्रार्थयेत्, कथं पुनर्भक्षयेत् ? ||८.१०।।
(सु.) वनस्पतिविधिमाह-तण'...इति, तृणवृक्षमित्येकवद्भावः, तृणानि-दर्भादीनि, वृक्षाः-कदम्बकादयः, एतान् न छिन्द्यात्, फलं मूलकं वा कस्यचिद् वृक्षादेर्न छिन्द्यात् तथा आमं-अशस्त्रोपहतं विविधं-अनेकप्रकारं बीजं मनसापि न प्रार्थयेत्, किं पुनरश्नीयादिति ||८.१०।।
गहणेसु न चिट्ठिज्जा, बीएसु हरी(रि)एसु वा ।
उदगंमि तहा निच्चं, उत्तिंगपणगेसु वा ।।८.११।। १. 'तालिअंटेण पत्तेण, साहाए विहुणेण वा । न वीइज्जऽप्पणो कायं....।। इत्यादि पाठोऽन्यत्र मुद्रितः ।।