SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ अष्टमम् अध्ययनन् २४९ त्वग्वर्तपरिग्रहः, किंभूत आसने ? सरजस्के पृथिवीरजोवगुण्डिते वा, तर्हि कथं कुर्यात्? अचेतनां पृथिवीं ज्ञात्वा रजोहरणेन प्रमृज्य निषीदेत्, किं कृत्वा ? अवग्रहं याचित्वा, कोऽर्थः ? यस्य गृहस्थादेः सम्बन्धिनी पृथिवी वर्तते, तं गृहस्थमनुज्ञाप्यादेशं लात्वेत्यर्थः इति पृथिवीकायविधिरुक्तः ||८.५।। । (सु.) सुद्ध'इति, शुद्धपृथिव्यां अशस्त्रोपहतायामनन्तरितायां न निषीदेत्, तथा सरजस्के-पृथिवीरजोगुण्डिते वा आसने-पीठकादौ न निषीदेत्, निषीदनग्रहणात् स्थान-त्वग्वर्त्तनपरिग्रहः, अचेतनायां तु प्रमृज्य तां रजोहरणेन निषीदेद, ज्ञात्वेत्यचेतनां ज्ञात्वा याचयित्वाऽवग्रहमिति, यस्य सम्बन्धिनी पृथिवी तमवग्रहमनुज्ञाप्येत्यर्थः उक्तः पृथिवीकायविधिः ।।८.५।। सीओदगं न सेविज्जा, सिलावुटुं हिमाणि य । उसिणोदगं तत्तफासुयं, पडिगाहिज्ज संजए ||८.६।। (ति.) अप्कायविधिमाह-सीतोदकम्-पृथव्युद्भवम् । न सेवेत। शिलावृष्टं हिमानि च-शिलाः-करका, वृष्टम्-वर्षणम्, हिमं प्रतीतम्। तीयं कथं वर्तेत ? इत्याह । उष्णोदकं तप्तप्राशुकम्-तप्तं त्रिदण्डोत्कलितं सन् प्रासुकम्। नोष्णोदकमात्रं प्रतिगृह्णीयात् संयतः ||८.६।। (स.) अथाऽप्कायविधिमाह-सीओदगं'इति संयतः साधुः शीतोदकं पृथिवीतदुद्भवं सच्चित्तोदकं सचित्तपानीयं न सेवेत. तथा शिलावृष्टिं हिमानि च न सेवेत, अत्र शिलाग्रहणेन करकाः परिगृह्यन्ते, वृष्टं वर्षणं, हिमं प्रसिद्धं, प्राय उत्तरापथे भवति, आह-यद्येवं तर्हि कथं साधुर्वर्तेत ? इत्याह-उष्णोदकं क्वथितोदकं तप्तप्रासुकं तप्तं सत् प्रासुकं त्रिदण्डोवृत्तं नोष्णोदकमात्रं प्रतिगृह्णीयावृत्त्यर्थम्, एतच्च सौवीरादीनामुपलक्षणम्. ।।८.६ ।।। __ (सु.) अधुना अप्कायविधिमाह-सीओदगं'इति, शीतोदकं-पृथिव्युद्भवं, सच्चित्तोदकं न सेवेत, तथा शिलावृष्टं हिमानि च न सेवेत, अत्र शिलाग्रहणेन करकाः परिगृह्यन्ते, वृष्टं वर्षणं, हिमं प्रतीतं प्राय उत्तरापथे भवति, यद्येवं ? कथमयं वर्तेत ?-इत्याहउष्णोदकं-क्वथितोदकं तप्तप्रासुकं-तप्तं सत् प्रासुकं त्रिदण्डोवृत्तं, नोष्णोदकमात्रं परिगृह्णीयात्, वृत्त्यर्थं संयतः-साधुः, एतच्च सौवीराद्युपलक्षणमिति ।।८.६ ।।
SR No.022615
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2014
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy