________________
२४८
दशवैकालिकं-टीकात्रिकयुतम् (सु.) यतश्चैवं ? अतः तेसिं'इति, तेषां-पृथिव्यादीनां अक्षणयोगेन-अहिंसाव्यापारेण नित्यं भवितव्यं-वर्तितव्यं स्याद् भिक्षुणा मनसा कायेन वाक्येन-एभिः करणैरित्यर्थः, एवं वर्तमानोऽहिंसकः सन् भवति संयतो, नान्य(था) इति ।।८.३।।
पुढविं भित्तिं सिलं लेखें, नेव भिंदे न संलिहे | : तिविहेणं करणजोएणं, संजए सुसमाहिए ।।८.४।। (ति.) विशेषविधिमाह-अर्थः प्राग्वत् ।।८.४ ।।
(स.) एवं सामान्येन षड्जीवनिकायस्याहिंसायां संयतत्वं कथयित्वा, तदगतविधिं विधानतो विशेषेणाह-पुढविं-इति-संयतः साधुः पृथिवीं शुद्धां, भित्तिं, तटी, शिलां पाषाणरूपां, लेष्टुमिट्टालखण्डं, नैव भिद्यान्न सँलिखेत्, तत्र भेदनं द्वैधीभावाद् व्यापादनं, सँलेखनमीषल्लेखनं, त्रिविधेन त्रिकरणयोगेन न करोति मनसा वचसा कायेन, किंभूतः संयतः ? सुसमाहितः समाधिमान् शुद्ध इत्यर्थः ।।८.४।।
(सु.) एवं सामान्येन षड्जीवनिकायाहिंसायां संयतत्वमभिधायाधुना तद्गतविधीन् विधानतो विशेषेणाह-पुढविं...इति, पृथिवीं शुद्धां, भित्तिं-तटी, शिलां पाषाणात्मिकां लेष्टुं-इट्टालखण्डं नैव भिन्द्यात् न संलिखेत्, तत्र भेदन-वैधीभावोत्पादनं, संलेखनंईषल्लेखनं, त्रिविधेन करणयोगेन, न करोति मनसेत्यादिना, संयतः-साधुः, सुसमाहितः शुद्धभाव इति ।।८.४।।
सुद्धपुढवीइ न निसीए, ससरक्खंमिअ आसणे। पमज्जित्तु निसीइज्जा, जाइत्ता जाइ उग्गहं ।।८.५।। (ति.) तथा-शुद्धायाम्-सचित्तायां वा अनन्तर्हितायाम्। पृथिव्यां न निषीदेत् । सरजस्के-पृथ्वीकायरजोगुण्डिते। आसने च न निषीदेत् । अचेतनां तु पृथ्वी 'जाणित्ता'ज्ञात्वा। प्रमृज्य-रजोहरणेन प्रोञ्छनकं क्षिप्त्वा निषीदेत्। 'जाइत्ता उग्गहं' याचित्वाअवग्रहं यस्य पृथिवी तं याचित्वानुज्ञाप्यावग्रहमित्यर्थः उक्तः पृथिवीकायविधिः ।।८.५।।
(स.) सुद्ध...इति-पुनः किञ्च संयतः शुद्धपृथिव्यां, शस्त्रेण या नोपहता, तस्यां पृथिव्यां न निषीदेत्, तथा पुनरासने पीठकादौ न निषीदेत्, निषीदनग्रहणात् स्थान१.०पुढवीं न इति मुद्रितोऽन्यत्र पाठः ।।