________________
अष्टमम् अध्ययनम्
२४७
प्रणिधिमुक्तस्वरूपां लब्ध्वा प्राप्य यथा येन प्रकारेण कर्त्तव्यं विहितानुष्ठानं भिक्षुणासाधुना, तं प्रकारं भे-भवद्द्भ्य उदाहरिष्यामि - कथयिष्याम्यानुपूर्व्या-परिपाट्या श्रुणुत ममेति गौतमादयः स्वशिष्यानाहुरिति ।।८.१ ।।
पुढवि-दग-अगणि-वाऊळे, तण-रुक्ख-सबीयगा ।
तसा य पाणा जीव त्ति, इई वुत्तं महेसिणा ।।८.२।।
(ति.) तं प्रकारमाह - पृथव्युदकाग्निवायवः । तृणवृक्षसबीजाः । त्रसादयः । प्राणाः-प्राणिनः । जीवा इति । इत्युक्तं महर्षिणा - श्रीवीरजिनेन्द्रमुखात् श्रीगौतमस्वामिना ।।८.२।।
(स.) अथ तं प्रकारमाह - पुढवि - इति महर्षिणा श्रीवर्धमानेन गौतमेन वा इत्येवमुक्तं, एवं किम् ?-इत्याह-एते जीवाः, एते के ? - इत्याह- पृथिव्युदकाग्निवायवः, पुनस्तृणवृक्षाः सबीजाः, एते पञ्चैकेन्द्रियाः पूर्ववत्, त्रसाश्च प्राणिनो द्वीन्द्रियादयः, एते सर्वेऽपि जीवा ज्ञेयाः ।। ८.२ ।।
(सु.) पुढवि' इति, पृथिव्युदकाग्निवायवस्तृणवृक्षसबीजा एते पञ्चैकेन्द्रियकायाः पूर्ववत्, त्रसाश्च प्राणिनो द्वीन्द्रियादयो 'जीवा' इत्युक्तं महर्षिणा - वर्द्धमानेन गौतमेन वेति ।।८.२।।
तेसिं अत्थणजोएण, निच्चं होयव्वयं सया |
मणसा कायवक्केणं, एवं हवइ संजए ।।८.३ ।।
(ति) यतश्चैवम् ? - अतः - तेषाम् - जीवानाम् । अक्षणयोगेन - अहिंसाव्यापारेण । नित्यं भवितव्यम्-वर्त्तितव्यं स्यात् । भिक्षुणा मनसा कायेन वाक्येन । एवम् वर्तमानः । संयतो भवति । नान्यः ।।८.३ ।।
(स.) यतश्चैते जीवास्ततः किं कर्तव्यमित्याह - तेसिं-इति- भिक्षुणैतेषां पृथिव्यादिजीवानामक्षणयोगेनाहिंसाव्यापारेण नित्यं भवितव्यं वर्तितव्यं स्यात्, केन ? मनसा कायेन वाक्येन, एभिः कारणैरित्यर्थः, एवं वर्तमानोऽहिंसकः सन् संयतः सम्भवति नान्यः ।।८.३।।
१. मारुअ १० टि. ।