SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ अष्टमम् अध्ययनम् २४७ प्रणिधिमुक्तस्वरूपां लब्ध्वा प्राप्य यथा येन प्रकारेण कर्त्तव्यं विहितानुष्ठानं भिक्षुणासाधुना, तं प्रकारं भे-भवद्द्भ्य उदाहरिष्यामि - कथयिष्याम्यानुपूर्व्या-परिपाट्या श्रुणुत ममेति गौतमादयः स्वशिष्यानाहुरिति ।।८.१ ।। पुढवि-दग-अगणि-वाऊळे, तण-रुक्ख-सबीयगा । तसा य पाणा जीव त्ति, इई वुत्तं महेसिणा ।।८.२।। (ति.) तं प्रकारमाह - पृथव्युदकाग्निवायवः । तृणवृक्षसबीजाः । त्रसादयः । प्राणाः-प्राणिनः । जीवा इति । इत्युक्तं महर्षिणा - श्रीवीरजिनेन्द्रमुखात् श्रीगौतमस्वामिना ।।८.२।। (स.) अथ तं प्रकारमाह - पुढवि - इति महर्षिणा श्रीवर्धमानेन गौतमेन वा इत्येवमुक्तं, एवं किम् ?-इत्याह-एते जीवाः, एते के ? - इत्याह- पृथिव्युदकाग्निवायवः, पुनस्तृणवृक्षाः सबीजाः, एते पञ्चैकेन्द्रियाः पूर्ववत्, त्रसाश्च प्राणिनो द्वीन्द्रियादयः, एते सर्वेऽपि जीवा ज्ञेयाः ।। ८.२ ।। (सु.) पुढवि' इति, पृथिव्युदकाग्निवायवस्तृणवृक्षसबीजा एते पञ्चैकेन्द्रियकायाः पूर्ववत्, त्रसाश्च प्राणिनो द्वीन्द्रियादयो 'जीवा' इत्युक्तं महर्षिणा - वर्द्धमानेन गौतमेन वेति ।।८.२।। तेसिं अत्थणजोएण, निच्चं होयव्वयं सया | मणसा कायवक्केणं, एवं हवइ संजए ।।८.३ ।। (ति) यतश्चैवम् ? - अतः - तेषाम् - जीवानाम् । अक्षणयोगेन - अहिंसाव्यापारेण । नित्यं भवितव्यम्-वर्त्तितव्यं स्यात् । भिक्षुणा मनसा कायेन वाक्येन । एवम् वर्तमानः । संयतो भवति । नान्यः ।।८.३ ।। (स.) यतश्चैते जीवास्ततः किं कर्तव्यमित्याह - तेसिं-इति- भिक्षुणैतेषां पृथिव्यादिजीवानामक्षणयोगेनाहिंसाव्यापारेण नित्यं भवितव्यं वर्तितव्यं स्यात्, केन ? मनसा कायेन वाक्येन, एभिः कारणैरित्यर्थः, एवं वर्तमानोऽहिंसकः सन् संयतः सम्भवति नान्यः ।।८.३।। १. मारुअ १० टि. ।
SR No.022615
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2014
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy