________________
(1| अष्टमम् आचारप्रणिध्यध्ययनम् ।।)
आयारपणिहिं लथु, जहा कायव्व भिक्खुणा | तं भे उदाहरिस्सामि, आणुपुब्बिं सुणेह मे ||८.१||
(ति.) अनन्तराध्ययने वाक्यशुद्धिरुक्ता | सा चाचारे 'प्रणिहितस्य भवतीत्यनेन सम्बन्धेनायातमाचारप्रणिध्यध्ययनं व्याख्यायते । तच्चेदम्-आचार:-साध्वनुष्ठेयः, तस्य प्रकृष्टो निधिः प्रणिधिः तं, लब्ध्वा-प्राप्य । यथा कर्तव्यं भिक्षुणा । तम्-प्रकारम् । भेभवद्भ्यः । उदाहरिष्यामि-कथयिष्यामि | आनुपूर्व्या | श्रुणुत मे-नम कथयतः | श्रीगौतमादयः स्वशिष्यानाहुः ||८.१।।
(स.) व्याख्यातं वाक्य शुद्ध्यध्ययनं-नाम सप्तममध्ययनम्, अथाचारप्रणिधिनामकमष्टममध्ययनं प्रारभ्यते, अस्य चायमभिसम्बन्धः-इतः पूर्वाध्ययने साधुना वचनगुणदोषान् जानता निष्पापं वचनं वक्तव्यमित्युक्तं, इह तु निष्पापं वचनमाचारे स्थितस्य भवति-इत्याचारे यत्नः कार्य इत्येतदुच्यत इति, अनेन सम्बन्धेनायातमिदमध्ययनं व्याख्यायते, तथाहि-[आयार...इति]
श्रीमहावीरदेवः स्वकीयशिष्यान् गौतमादीनेवमाह-तमाचारप्रणिधिं, भे भवद्भ्य उदाहरिष्यामि कथयिष्याम्यानुपूर्व्या परिपाट्या, यूयं श्रुणुत मे मम कथयत इति शेषः, तं कं ? यमाचारप्रणिधिं लब्ध्वा प्राप्य, भिक्षुणा साधुना यथा येन प्रकारेण विहितानुष्ठानं कर्तव्यम् ।।८.१।।
(सु.) व्याख्यातं वाक्यशुद्ध्यध्ययनं, इदानीमाचारप्रणिध्याख्यमारभ्यते, अस्य चायमभिसम्बन्धः । इहानन्तराध्ययने साधुना वचनदोषगुणाभिज्ञेन निरवद्यवचसा वक्तव्यमित्येतदभिहितं, इह तु तन्निरवद्यं वच आचारे प्रणिहितस्य भवतीति तत्र यत्नवता भवितव्यमित्येतदुच्यते उक्तं च
"पणिहाणरहियस्सेह निरवज्जं पि भासियं । सावज्जतुल्लं विनेयं, अज्झत्थेणेह संवुडं ||१||"
इत्यनेनाभिसम्बन्धेनायातमिदमध्ययनमिति, तद्यथा-आचारमित्यादि, आचार१.स्थितस्य १० टि. ।।