________________
२४५
सप्तमम् अध्ययनम्
अनिश्रितो द्रव्य-भावनिश्रारहितः प्रतिबन्धविप्रमुक्तः, ब्रवीमीति पूर्ववत् । ।७.५७।। इति श्रीसमयसुन्दरोपाध्यायविरचितायां दशवैकालिकशब्दार्थवृत्तौ वाक्यशुद्ध्यध्ययनं समाप्तम्. श्रीरस्तु ७.
(सु.) उपसंहरन्नाह - परिक्ख इति, परीक्ष्यभाषी - आलोचितवक्ता तथा सुसमा - हितेन्द्रियः-सुप्रणिहितेन्द्रिय इत्यर्थः, अपगतचतुष्कषायः-क्रोधादिनिरोधकर्त्तेति भावः, अनिश्रितो-द्रव्य-भावनिश्रारहितः, प्रतिबन्धविमुक्त इति हृदयं, स इत्थंभूतो निर्धूयप्रस्फोट्य धून्नमलं-पापमलं, पुराकृतं - जन्मान्तरकृतं किम् ? इत्याह आराधयतिप्रगुणीकरोति, लोकमेनं- मनुष्यलोकं वाक्संयतत्वेन तथा परमिति - परलोकमाराधयति निर्वाणलोकं, यथासम्भवमन्तरं पारम्पर्येण चेत्यर्थः । । ३३४ ।। ब्रवीमीति पूर्ववदेवेति ।। इति श्रीसुमतिसाधुविरचितायां दशवैकालिकटीकायां सप्तमस्य वाक्यशुद्ध्यध्ययनस्य व्याख्यानं समाप्तम् ७ ।।
1