________________
२३९
सप्तमम् अध्ययनम्
(ति.) तथैवासंयतम्-गृहस्थम् । धीरः-साधुः । आस्व इह । एहि इतोऽत्र | कुरु वा इदं कार्यं । शेष्व निद्रया । तिष्ठ क्षणम् । व्रज ग्रामम् । नैवं भाषेत प्रज्ञावान् ||७.४७।।
(स.) तहेव'इति-पुनः किञ्च प्रज्ञावान् बुद्धिमान् धीरः पण्डितो यतिरसंयतं गृहस्थं प्रतीति न भाषेत, इतीति किं ? त्वमिहैवास्वोपविश, त्वमेह्यत्र, त्वमिदं सञ्चयादि कुरु, तथा निद्रया त्वं शेष्व, तथा त्वमत्र तिष्ठोलस्थानेन, तथा त्वं व्रज ग्राममिति. |७.४७।।
(सु.) किञ्च तहेव...इति, तथैवासंयतं-गृहस्थं धीरो-यतिः, आस्वेहैव, एहीतोऽत्र, कुरु वेदं-संचयादीति, तथा शेष्व निद्रया, तिष्ठोर्ध्वस्थानेन व्रज ग्राममिति नैवं भाषेत प्रज्ञावान्-साधुरिति ।।७.४७।।
बहवे इमे असाहू, लोए वुच्चंति साहूणो | न लवे असाहु साहु त्ति, साहू साहु त्ति आलवे |७.४८।।
(ति.) अपि च बहवः इमे आजीवकादयोऽसाधवः | लोके-लोकमध्ये | उच्यन्ते साधवः । अतो नालपेदसाधु साधुमिति-मृषावादप्रसङ्गात् । साधु साधुमित्यालपेत् ।।७.४८ ।।
(स.) बहवे इति-पुनः किञ्च लोके प्राणिलोके प्राणिसङ्घात एते बहव उपलभ्यमानस्वरूपा आजीवकादयो मोक्षसाधकयोगमाश्रित्य साधव उच्यन्ते सामान्येन, परमसाधुं साधुं नालपेत्, मृषावादप्रसङ्गात्, अपि तु साधुं प्रति साधुमालपेत्, न तु तमपि नालपेत्, उपबृंहणा प्रशंसा गुणानां तस्या अकरणेऽतिचारदोषः स्यात्. । ७.४८ ।।
(सु.) बहवे इति, बहव एते-उपलभ्यमानस्वरूपा आजीविकादयः असाधवो निर्वाणसाधकयोगापेक्षया लोके तु प्राणिलोके प्राणिसंघात उच्यन्ते साधवः सामान्येन, तत्र नालपेत् असाधु साधुं मृषावादप्रसङ्गात्, अपि तु साधु साधुमित्यालपेत्, न तु तमपि नालपेत्, उपबृंहणातिचारदोषप्रसङ्गादिति |७.४८ ।।
नाणदंसणसंपन्नं, संजमे य तवे रयं । एवं गुणसमाउत्तं, संजय साहूमालवे ।।७.४९ ।।