________________
२३८
दशवैकालिकं-टीकात्रिकयुतम् 'सुविक्कीअं'इति' किञ्चित् केनचिद् विक्रीतं दृष्ट्वा पृष्टः सन् सुविक्रीतमिति न व्यागृणीयात्, तथा केनचित् क्रीते पृष्टेऽक्रेयं क्रयार्हमेव वा न भवतीति न व्यागृणीयात्, तथैवमेव क्रेयमेव वा क्रयाहमिति तथेदं गुडादि गृहाण ? आगामिनि काले महाघु भविष्यतीति, तथेदं मुञ्च घृतादि ? आगामिनि काले समर्घ भविष्यतीति, पणितं पण्यं क्रयाणकं, नैवं व्यागृणीयात्, अप्रीत्यधिकरणादिदोषप्रसङ्गादिति. ७.४५ ।।
(सु.) किञ्च–सुक्कीयं वा...इति, सुक्रीतं चेति केनचित् किञ्चित् क्रीतं दर्शितं सत् सुक्रीतमिति न व्यागृणीयादिति योगः, तथा सुविक्रीतमिति किञ्चित् केनचिद विक्रीतं दृष्ट्वा पृष्टः सन् सुविक्रीतमिति न व्यागृणीयात्, तथा केनचित् क्रीते पृष्टः, अक्रेयं-क्रयार्हमेव न भवतीति न व्यागृणीयात्, तथैवमेव क्रेयमेव वा-क्रयाहमिति, तथेदं-गुडादि गृह्णीयादा(गृहाणा)गामिनि काले महाधैं भविष्यतीति, तथेदं मुञ्च घृतादि, आगामिनि काले समधु भविष्यति-इतिकृत्वा पणितं-पण्यं नैव व्यागृणीयात्, अप्रीत्यधिकरणादिदोष-प्रसङ्गादिति ।।७.४५।।
अप्पग्घे वा महग्घे वा, कए वा विक्कए वि वा । पणियटे समुप्पन्ने, अणवज्ज वियागरे ।७.४६ ।।
(ति.) अल्पाघे वा । महाघे वा । क्रये वा । विक्रयेऽपि वा । पणितार्थेपण्यवस्तुनि । समुत्पन्ने-केनचित् पृष्टः सन् । अनवद्यम्-अपापं व्यागृणीयात् । यथात्र तपस्विनां नाधिकार इति ।।७.४६ ।।
(स.) अत्रैव विधिमाह-अप्पग्घ इति-अल्पार्थे वा महाघे वा, कस्मिन्नित्याह-क्रये वा विक्रये वापि पणितार्थे वा पण्यवस्तुनि समुत्पन्ने केनचित् पृष्टः सन् साधुरनवद्यमपापं व्यागृणीयात्. यथा नाधिकारस्तपस्विनां व्यापारस्याभवादिति. । ७.४६ ।।
(सु.) अत्रैव विधिमाह-अप्पग्घे वा..इति, अल्पाघे वा महाघे वा, कस्मिन्नित्याहक्रये वा विक्रयेऽपि वा पणितार्थे-पण्यवस्तुनि समुत्पन्ने केनचित् पृष्टः सन्ननवाअपापं व्यागृणीयात् यथा नाधिकारोऽत्र तपस्विनां, व्यापाराभावादिति ।७.४६ ।।
तहेवासंजयं धीरो, आस एहि करेहि वा । सय चिट्ठ वयाहि त्ति, नेवं भासिज्ज पन्नवं ।७.४७।।