________________
२३७
सप्तमम् अध्ययनम्
सव्वमेयं वइस्सामि, सव्वमेयं ति नो वए । अणुवीई सव्वं सव्वत्थ, एवं भासिज्ज पन्नवं ।।७.४४ ।। (ति.) किञ्च-केनचित् साधुना साधोः सन्देशे कथिते 'त्वया सर्वमिदं वाच्यम्'इत्युक्ते सर्वमेतद् वक्ष्यामि'इति न वदेत्-सर्वस्य स्वरव्यञ्जनाद्युपेतस्य वक्तुमशक्यत्वात् मृषावाददोषः। स्वयमपि सन्दे(न्दि)शता सर्वमेतत् त्वया वक्तव्यमिति न वाच्यम्प्रागुक्त एवात्र दोषः । अतोऽनुविचिन्त्य सर्वं सर्वत्र । एवम्-यथा मृषावादो न स्यात् तथा भाषेत प्रज्ञावान् ।।७.४४।।।
(स.) सव्वं इति पुनः किञ्च सर्वमेतद् वक्ष्यामीति केनचित् कस्यचित् सन्दिष्टे सर्वमेतत् त्वया वक्तव्यमिति सर्वमेतद् वक्ष्यामीति साधु! वदेत्, सर्वस्य तथा स्वरव्यञ्जनाधुपेतस्य वक्तुमशक्यत्वात्, तथा सर्वमेतदिति नो वदेत्, कस्यचित् सन्देहं प्रयच्छन् सर्वमेतदित्येवं वक्तव्यमिति नो वदेत्, सर्वस्य तथास्वरव्यञ्जनाद्युपेतस्य वक्तुमशक्यत्वात्, असम्भवाभिधाने मृषावादादयो यतश्च दोषा भवन्ति, एवमतोऽनुचिन्त्यालोच्य सर्वं वाच्यं, सर्वेषु कार्येषु, यथासम्भवाद्यभिधानादिना मृषावादो न भवत्येवम् ।।७.४४ ।।
(सु.) किञ्च-सव्वमेयं...इति, सर्वमेतद् वक्ष्यामीति केनचित् कस्यचित् संदिष्टे सर्वमेतत् त्वया वक्तव्यमिति, सर्वमेतद् वक्ष्यामीति नो वदेत्, सर्वस्य तथास्वरव्यञ्जनाधुपेतस्य वक्तुमशक्यत्वात्, तथा सर्वमेतदिति नो वदेत्, कस्यचित् संदेशं प्रयच्छन्, सर्वमेतदित्येवं वक्तव्यमिति नो वदेत्, सर्वस्य तथास्वरव्यञ्जनाद्युपेतस्य वक्तुमशक्यत्वात्, असंभवाभिधाने मृषावादः, यतश्चैवं ?-अतो-ऽनुचिन्त्यालोच्य सर्वं वाच्यं सर्वेषु कार्येषु यथाऽसंभवाद्यभिधानादिना मृषावादो न भवत्येवं भाषेत प्रज्ञावान् साधुरिति ।।७.४४ ।।
सुक्कीयं वा सुविक्कीयं, अकिज्जं किज्जमेव वा । इमं गिण्ह इमं मुंच, पणीयं नो वियागरे ।७.४५।।
(ति.) किञ्च-केनचित् क्रीते दर्शिते सुक्रीतमिति । विक्रीते सुविक्रीतमिति । क्रीते दर्शिते अक्रेयमिदम् । क्रेयमेवेदमिति वा । इदं गृहाण पण्यं महायँ भविष्यति। इदं मुञ्च- समधैं भविष्यति । इति न व्यागृणीयात् ।।७.४५।।
(स.) सुक्कीअं'इति-किञ्च साधुरेवं न व्यागृणीयात्, एवमिति किं ? यदाह'सुक्कीअं'इति' केनचित् किञ्चित् क्रीतं दर्शितं सत् सुक्रीतमिति योगः, तथा