SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ २३६ दशवैकालिकं-टीकात्रिकयुतम् ब्रूयात् क्वचित् प्रयोजने, एवं हि तदप्रीत्यादयो दोषाः परिहृता भवन्तीति. | ७.४२ ।। ___ (सु.) उक्तानुक्तापवादविधिमाह-पयत्त...इति, प्रयत्नपक्वमिति वा प्रयत्नपक्वमेतत्, पक्वं सहस्रपाकादि ग्लानादिप्रयोजने एवमालपेत्, तथा प्रयत्नच्छिन्नमिति वाप्रयत्नच्छिन्नमेतच्छिन्नं-व्रणा(वना)दि साधुनिवेदनादावेवमालपेत्, तथा प्रयत्नलष्टेति चेति प्रयत्नसुन्दरा कन्या दीक्षिता सती सम्यक् पालनीयेति, कर्महेतुकमिति सर्वमेव वा कृतादि कर्मनिमित्तमालपेदिति योगः, तथा गाढप्रहारमिति वा कञ्चन गाढमालपेत्गाढप्रहारं ब्रूयात्, क्वचित् प्रयोजने, एवं हि तदप्रीत्यादयो दोषाः परिहृता भवन्ति इति ।।७.४२।। सबुक्कसं परग्धं वा, अउलं नत्यि एरिसं । अवक्कियमवत्तव्वं, अचियत्तं चेव नो वए ।७.४३।। (ति.) क्वचिद् व्यवहारे प्रक्रान्ते पृष्टोऽपृष्टो वा साधुनॆवं ब्रूयात्-एतन्मध्ये इदं सर्वोत्कृष्टं परार्धं वा-प्रकृष्टाघ महाघम् । इदम् अतुलं नास्तीदृशमन्यत्र । अवक्कियंअसंस्कृतं सुलभमीदृशमन्यत्रापि । अवक्तव्यम्-अनन्तगुणमप्यस्त्येतत् । अप्रीतिकरमेतदिति नो वदेत्-अधिकरणादिदोषप्रसङ्गात् ।।७.४३।। (स.) क्वचिद् व्यवहारे प्रक्रान्ते पृष्टोऽपृष्टो वा नैवं वदेदित्याह-सव्वुक्कसं इतिसाधुरेवं वक्ष्यमाणं नो वदेत्, एवं किम् ?-इत्याह-एतन्मध्य इदं सर्वोत्कृष्टं स्वभावेन सुन्दरमित्यर्थः, पराघु वा उत्तमाघु वा महाघु क्रीतमित्यर्थः, अतुलं नास्तीदृगन्यत्रापि क्वचित्, 'अविक्किअं इति' असंस्कृतं सुलभमीदृशमन्यत्रापि, अवक्तव्यमित्यनन्तगुणमेतदेव. 'अविअत्तं' वा अप्रीतिकरं चैतत्, इत्येवं नो वदेत् साधुः, अधिकरणा-ऽन्तरायादिदोषप्रसङ्गादिति. ७.४३।। (सु.) क्वचिद् व्यवहारे प्रक्रान्ते पृष्टो वा अपृष्टो वा नैवं वदेदित्याह-सव्वुक्कं इति, एतन्मध्ये इदं सर्वोत्कृष्टं-स्वभावेन सुन्दरमित्यर्थः, परार्धे चोत्तमाघु वा महाघु क्रीतमिति भावः, अतुलं-नास्तीदृशमन्यत्रापि क्वचित्, अविक्कियं...इति-असंस्कृतं सुलभमीदृशमन्यत्रापि, अवक्तव्यमित्यनन्तगुणमेतदेव अचियत्तं वा-अप्रीतिकरं चैतदिति नो वदेद्, अधिकरणान्तरायादिदोषप्रसङ्गादिति ।।७.४३ ।।
SR No.022615
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2014
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy