________________
२४०
दशवैकालिकं-टीकात्रिकयुतम् (ति.) किंविशिष्टं साधुं 'साधुम्' इति आलपेत् ? इत्याह-[नाण...इति] स्पष्टः ||७.४९।।
(स.) किंविशिष्टं साधु 'साधु' आलपेत् ? इत्याह-नाण'इति-एवंविधं संयतं साधुमालपेत्, किंभूतं संयतं? ज्ञान-दर्शनसम्पन्नं, ज्ञान-दर्शनाभ्यां सम्पूर्ण समृद्धं पुनः किंभूतं संयतं ? संयमे सप्तदशभेदे च पुनः, तपसि द्वादशभेदे, रतं यथाशक्ति तत्परम्, एवं पूर्वोक्तगुणसमायुक्तं न तु द्रव्यलिङ्गधारिणम्. ७.४९ ।।
(सु.) किंविशिष्टं साधु साधुम्' इति आलपेत् ? इत्याह-[नाण...इति], नाण...इति, ज्ञानदर्शनसंपन्नं-समृद्धं, संयमे तपसि च रतं यथाशक्त्या एवं गुणसमायुक्तं संयतं साधुमालपेत्, न तु द्रव्यलिङ्गधारिणमपीति ।।७.४९ ।।
देवाणं मणुयाणं च, तिरियाणं च वुग्गहे | अमुयाणं जओ होउ, मा वा होउ त्ति नो वए |७.५०।। (ति.) तथा देवानाम्-देवासुराणाम्, मनुजानाम्-राजादीनाम्, तिरश्चाम्महिषादीनाम्। व्युद्ग्रहे | अमुकानां जयो भवतु | मा वा भवतु-इति नो वेदत्तत्पक्षपाति-द्वेषप्रसङ्गात् ।।७.५० ।।
(स.) देवाणं'इति-किञ्च साधुरिति नो वदेत्, इतीति किं ? अमुकानां देवानां जयो भवतु वा मा भवतु-इति नो वदेत्, कथम् ? अधिकरण-तत्स्वाम्यादि-द्वेषप्रसङ्गात्, क्व सति ? देवानां देवासुराणां मनुजानां च नरेन्द्रादीनां, तिरश्चां च महिषादीनां विग्रहे सङ्ग्रामे सति. |७.५० ।।
(सु.) किञ्च-देवाणं इति, देवानां-देवासुराणां, मनुजानां च-नरेन्द्रादीनां, तिरश्चां च-महिषादीनां विग्रहे-सङ्ग्रामे सति, 'अमुकानां देवादीनां जयो भवतु ‘मा वा भवतु' इति च नो वदेत्, अधिकरणतत्स्वाम्यादिद्वेषदोषप्रसंगादिति ।७.५० ।।
वाउँ वुटुं च सीउण्हं, खेमं धायं सिवं ति वा । कया णु हुज्ज एयाणि, मा वा होउ ति नो वए |७.५१।।
१. वाओ इति मुद्रितोऽन्यत्र पाठः ||