________________
२३२
दशवैकालिकं-टीकात्रिकयुतम् संखडिं संखडिं बूया, पणियट्टि त्ति तेणगं | बहुसमाणि तित्थाणि, आवगाणं वियागरे ।७.३७।।
(ति.) सङ्खण्डिकां सङ्खण्डिकैवैषा'इति ब्रूयात् । प्रकर्षेण नीतोऽर्थोऽनेनेति प्रणीतार्थोऽयम्'इति स्तेनकं वदेत् । बहुसमानि तीर्थानिः | आपगानाम्-नदीनाम् । व्यागृह्णीयात् ।।७.३७।।
(स.) प्रयोजने उत्पन्ने सति, पुनः साधुरेवं वदेत्-इत्याह-सङ्खडिं-इति-साधुः सङ्खडिमिति ब्रूयात् साधुकथनादौ सङ्कीर्णा सङ्खडीत्येवमादि, पणितार्थ इति तथा स्तेनकं वदेच्छैक्षकादिकर्मविपाकदर्शनादौ, पणितेनार्थोऽस्येति पणितार्थः, प्राणघृत(पणद्यूत)प्रयोजन इत्यर्थः, तथा बहुसमानि तीर्थान्यापगानां नदीनामिति व्यागृणीयात्, साध्वादिविषय इति. |७.३७ ।।
(सु.) प्रयोजने पुनरेवं वदेत्-इत्याह-संखडिं...इति, संखडिं संखडिं ब्रूयात्, साधुकथनादौ संकीर्णा संखडिरित्येवमादि, पणितार्थ इति स्तेनकं वदेत्, शैक्षकादिककर्मविपाकदर्शनादौ, पणितेनार्थोऽस्येति पणितार्थः, पणद्यूतप्रयोजन इत्यर्थः । तथा बहुसमानि तीर्थानि आपगाना-नदीनां व्यागृणीयात् साध्वादिविषय इति ।।७.३७ ।।
तहा नईओ पन्नाओ, कायतिज्ज त्ति नो वए । नावाहिं तारिमाउ त्ति, पाणिपिज्ज ति नो वए ।७.३८।।
(ति.) तथा नद्य-पूर्णाः कायतरणीया इति नो वदेत । नौभिस्तरणीया इति, तटस्थैः पाणिपेया इति च-न वदेत्-साधुवचनतः प्रवृत्त्यादिदोषात् ।।७.३८ ।।
(स.) वाग्विधिप्रतिषेधाधिकार एवेदमाह-तहा इति-साधुरिति नो वदेत्, इतीति किं ? नद्यः पूर्णा भृताः, कथं ? प्रवृत्तश्रवणनिर्वर्तनादिदोषात्, तथा कायतरणीयाः शरीरतरणयोग्या इत्येवं नो वदेत्, साधुवचनेन नो विघ्न इति प्रवर्तनादिप्रसङ्गात्, तथा नौभिोणीभिस्तरणीयास्तरणयोग्या इत्येवं नो वदेत्, अन्यथा विघ्नशङ्कया तत्प्रवर्तनात्. तथा प्राणिपेया इति नो वदेत्, अन्यथा प्रर्वतनादिदोषादिति. । ७.३८।।
(सु.) वाग्विधिप्रतिषेधाधिकार एव इदमाह-तहा नईओ'इति, तथा नद्यः पूर्णाभृता इति नो वदेत्, प्रवृत्तश्रवणनिवर्त्तनादि-दोषात्, तथा कायतरणीयाः-शरीरतरणयोग्या