________________
२३१
सप्तमम् अध्ययनम्
(स.) प्रयोजने पुनर्मार्गदर्शनादावेवमालपेदित्याह-रूढा इति-साधुरेवमालपेत्, एवं किमित्याह-रूढाः प्रादुर्भूताः, बहुसंभूता निष्पन्नप्रायाः, स्थिरा निष्पन्नाः. उत्सृता इति वा उपघातेभ्यो निर्गता इति वा, तथा गर्भिता अनिर्गतशीर्षकाः, प्रसूता निर्गतशीर्षकाः, संसाराः सञ्जाततन्दुलादिसारा इत्येवमालपेत्, पक्वाद्यर्थयोजना स्वधिया कार्या. ||७.३५।।
(सु.) प्रयोजने पुनर्मार्गदर्शनादावेवमालपेत्-इत्याह-रूढा...इति, रूढाः-प्रादुर्भूताः, बहुसंभूता-निष्पन्नप्रायाः, स्थिरा-निष्पन्नाः, उत्सृता इति वा-उपघातेभ्यो निर्गता वा, तथा गर्भिता-अनिर्गतशीर्षकाः प्रसूता-निर्गतशीर्षकाः, संसारा:-संजाततण्डुलादिसारा इत्येवमालपेत्, पक्वाद्यर्थयोजना स्वधिया कार्येति ।।७.३५।।
तहेव संखडिं नच्चा, किच्चं कज्जं ति नो वए । तेणगं वा वि वज्झि त्ति, सुत्तित्थि त्ति य आवगा |७.३६ ।।
(ति.) तथैव । सङ्खण्ड्यन्ते प्राणिनो यस्यां सा सङ्खण्डिका । पित्रादिनिमित्तं सांवत्सरिकादिका कृत्या कार्यैवैषा' इति यतिर्न वदेत्-मिथ्यात्वोपबृंहणात् । स्तेनकं वापि वध्योऽयम्'इति नो वदेत्-प्राणातिपातदोषात् । सुतीर्था'इति चापगा चकाराद् दुस्तीर्थेति न वदेत्, अधिकरणदोषात् ।।७.३६ ।।
(स.) वागविधिप्रतिषेधाधिकारेऽनुवर्तमान इदमपरमाह-तहेव इति-साधुः सङ्खडिं ज्ञात्वा, एषा पित्रादिनिमित्तं करणीया एवेति नो वदेत्, मिथ्यात्वस्योपबृंहणादोषात्, ननु सङ्खडीति कः शब्दार्थः ? उच्यते संखण्ड्यन्ते प्राणिनामायूंषि यस्यां प्रकरणक्रियायां सा सङ्खडी, तथा स्तेनकं चौरं ज्ञात्वायं वध्य इति नो वदेत्, तदनुमतेस्तेननिश्चयादिदोषप्रसङ्गात्, तथापगा नद्यः सुतीर्थाः, चशब्दाद् दुस्तीर्णा एता इति केनापि पृष्टः सन् नो वदेत्, अधिकरणविघातादिदोषप्रसङ्गात्. । ७.३६ ।।
(सु.) वाग्विधिप्रतिषेधाधिकारेऽनुवर्त्तमाने इदमपरमाह-तहेव...इति, तथैव संखडिं ज्ञात्वा संखण्ड्यन्ते प्राणिनांमायूंषि यस्यां प्रकरणक्रियायां सा संखडी, तां ज्ञात्वा, करणीयेति पित्रादिनिमित्तं कृत्यैवैषा इति नो वदेत्, मिथ्यात्वोपबृंहणदोषात्, तथा स्तेनकं वापि वध्य इति नो वदेत्, तदनुमतत्वेन निश्चयादिदोषप्रसङ्गात्, सुतीर्था इति च, चशब्दाद् दुस्तीर्था इति वा आपगा-नद्यः, केनचित् पृष्टः सन् नो वदेत्, अधिकरणविघातादि-दोष-प्रसङ्गादिति ।।७.३६ ।।