________________
सप्तमम् अध्ययनम्
२३३ इत्येवं नो वदेत्, साधुवचनतोऽविघ्नमिति प्रवर्तनादिदोषप्रसङ्गात्, तथा नौभि:द्रोणीभिस्तरणीयाः-तरणयोग्या इत्येवं नो वदेत्, अन्यथा विघ्नशङ्कया तत्प्रवर्तनात्, तथा प्राणिपेयाः-तटस्थप्राणिपेया नो वदेदिति, तथैव प्रवृत्तनिवर्त्तनादिदोषादिति ।।७.३८।।
बहुवाहडा अगाहा, बहुसलिलुप्पिलोदगा | बहुवित्थडोदगा यावि, एवं भासिज्ज पन्नवं ।।७.३९।।
(ति.) साधुमार्गकथनादौ चैवं भाषेत, इत्याह-बहुभृताः । अगाधाः-गम्भीराः | बहूनां सलिलानां उत्पीलं उदकं यासां ताः बहुसलिलोत्पीलोदकाः-प्रतिश्रोतोवाहितापरसरितः । बहुविस्तीर्णोदकाः-स्वतीर-प्लावितप्रसृतजलाः । एवं भाषेत प्रज्ञावान् । ७.३९।।
(स.) प्रयोजने साधुर्मार्गकथनादावेवं भाषेत-इत्याह-बहु...इति-प्रज्ञावान् साधुरेवं भाषेत वक्ष्यमाणं, परं न तु तदागत पृष्टोऽहं न जानामीति ब्रूयात्, कथं प्रत्यक्षमृषावादित्वेन तत्पद्वेषादि-दोषप्रसङ्गात्, एवं किमित्याह-बहुधा भृताः प्रायशो भृता इत्यर्थः, तथा अगाहा इति बह्वगाधाः प्रायो गम्भीराः, बहुसलिलोत्पीलोदकाः प्रतिस्रोतोवाहितापरसरित इत्यर्थः, तथा बहुधा विस्तीर्णोदकाश्च स्वतीरप्लावनप्रवृत्तजलाश्चेति. |७.३९ ।।
(सु.) प्रयोजने तु साधुमार्गकथनादावेवं भाषेतेत्याह-बहुवाहडा...इति, बहुधा भृताः प्रायशो भृता इत्यर्थः, तथा अगाहा इति बह्वगाधाः प्रायोगम्भीराः, तथा बहुसलिलोत्पीलोदकाः-प्रतिश्रोतोवाहितापरसरित इत्यर्थः, तथा बहुविस्तीर्णोदकाश्चस्वतीरप्लावनप्रवृत्तजलाश्च, एवं भाषेत प्रज्ञावान् साधुः, न तु तदाऽऽगतपृष्टो न वेम्यहमिति ब्रूयात्, प्रत्यक्षमृषावादित्वेन तत्प्रद्वेषादिदोषप्रसङ्गादिति । ७.३९ ।।
तहेव सावज्जं जोगं, परस्सट्टाइ निट्ठियं । कीरमाणं ति वा नच्चाः, सावज्जं न लवे मुणी ।।७.४०।।
(ति.) तथैव सावा योगम्-व्यापारम् । परस्यार्थाय-परस्य निमित्तम् । निष्ठितम्निःपन्नम् । क्रियमाणं वा-वा'शब्दाद् भाविनं वा । ज्ञात्वा सावद्यं न वदेत्-केनापि पृष्टो न कथयेत् मुनिः ।।७.४० ।।