________________
दशवैकालिकं-टीकात्रिकयुतम्
(स.) कारणे तूत्पन्न एवं वदेदित्याह - परि... इति । साधुः स्थूलं मनुष्यादिकं प्रतीति वदेत्, इतीति किम् ? अयं परिवूढो बलोपेतः, अयमुपचितः अयं सञ्जातः, अयं प्रीणितः अयं महाकाय इति ब्रूयादालपेत् ।। ७.२३।।
२२४
(सु.) कारणे पुनरुत्पन्ने, एवं वदेत् — इत्याह- 'परिवृढ इति, परिवृद्ध इति एनं - स्थूलं मनुष्यादिं ब्रूयात्, तथा ब्रूयादुपचित इति च, संजातः प्रीणितश्चापि सस्निग्धः महाकाय इति चालपेत् परिवृद्धं, पलोपचितं परिहरेदित्यादाविति । ।७.२३ ।।
तव गाओ दुज्झाओ, दम्मा गोरहगत्ति य । वाहिमा रहजोगत्ति, नेवं भासिज्ज पन्नवं । ।७.२४ ।।
(ति) तथैव । गावो दोह्याः - दोहार्ह्या । दम्याः - दमनयोग्याः । गोरथिकाःगोभिराकृष्यो रथः गोरथः शकटं, तत्र योज्यन्त इति 'क्रीतादित्वात् इकणि गोरथिकाः "कल्होडाः । वाह्या रथयोग्या इति नैव भाषेत प्रज्ञावान् । अधिकरणदोषप्राप्तेः
।।७.२४ ।।
(स.) पुनः कीदृशीं भाषां न वदेत् ? - इत्याह- तहेव 'इति - प्रज्ञावान् साधुर्नैवं भाषां भाषेत, एवं किम् ?-इत्याह-एता गावो दोह्या दोहार्हाः, आसां गवां दोहनसमयो वर्तत इत्यर्थः, एते गोरथका कल्होडका दम्याः, तथैते वाह्याः सामान्येन ये केचित्, तानाश्रित्य रथयोग्याः, कुतो न भाषेत् ? उच्यते - अधिकरणलाघवादिदोषा भवन्ति ।।७.२४।।
(सु.) किञ्च - तहेव... इति, तथैव यथैव गावो दोह्या-दोहार्हा- दोहसमय आसां वर्त्तते इत्यर्थः, दम्या-दमनीया गोरथका इति च, गोरथकाः कल्होडकास्तथा वाह्याः सामान्येन ये क्वचित् तानाश्रित्य रथयोग्या इति च नैवं भाषेत प्रज्ञावान् साधुः, अधिकरण- लाघवादिदोषादिति ।।७.२४ ।।
जुवं गवित्ति णं बूया, धेणुं रसदईति य ।
हस्से महल्लए आवि, वए संवहणित्ति य ।।७.२५।।
(ति.) कार्ये तु दिगुपलक्षणादौ एवं ब्रूयात् - दम्यं गां युवेति ब्रूयात् । धेनुं रसदेति । गोरथिकं ह्रस्वम् । वाह्यं महल्लकं वदेत् । रथयोग्यं संवहनः धुर्योऽयमिति । ।७.२५।।
1. बे के ऋण वर्षनुं वाछरडुं । २. 'सरदयत्ति' इति मुद्रितमन्यत्र ।