________________
सप्तमम् अध्ययनम्
२२३
करओ उस्सा मुम्मुरो जाला वाओ वाउली अंबओ अंबिलिआ, किमिओ जलूगा मक्कोडओ कीडिया भमरओ मच्छिया इच्चेवमादि ?,आयरिओ आह-जणवयसच्चेण ववहारसच्चेण य एवं पयट्टइ त्ति न इत्थ दोसो, पंचिंदिएसु पुण ण एयमंगीकीरइ, गोवालादीण वि ण सुदिट्ठधम्मि त्ति विपरिणामसंभवाओ, पुच्छियसामायारिकहणे वा गुणसंभवादिति" ||७.२१।।
तहेव मणुसं पसुं, प[क]खिं वा वि सरीसि(स)वं | थूले पमेइले वज्झे, पायमित्त य नो वए |७.२२ ।।
(ति.) तथैव मनुष्यं पशु पक्षिणं । सरीसृपम्-अजगरादिकम् । स्थूलः-अत्यन्तमांसलो मनुष्यादिः । तथा प्रमेदूरः-मेदस्वी । वध्यः-व्यापाद्यः । पाक्यः-पाकप्रायोग्यः, कोलप्राप्तः । इति वा-इत्यादि । नो वदेत् । अप्रीत्यादिदोषप्रसङ्गात् ।।७.२२ ।।
(स.) तहेव'इति-किञ्च साधुस्तथैवोक्तपूर्वं मनुष्यमार्यादिकं पशुमजादिकं पक्षिणं वापि हंसादिकं सरीसृपमजगरादिकं प्रतीति न वदेत्, इतीति किम् ? अयं स्थूलोऽत्यन्तमांसलो मनुष्यादिः, तथायं प्रमेदुरः प्रकर्षेण मेदासम्पन्नः. तथायं वध्यो मारणीयः. अयं पाक्यः पाकप्रायोग्यः, केचिद्वदन्ति-पाक्यः कालप्राप्त इत्येवं वचनं न वदेत्, कथम् ? अप्रीतिव्यापत्त्याशङ्कादिदोषप्रसङ्गात्. |७.२२।।
(सु.) किञ्च-तहेव इति, तथैव यथैवोक्तं प्राक्, मानुष्यं आर्यादिकं, पशु-अजादिकं, पक्षिणं वापि-हंसादिकं, सरीसृपं-अजगरादिकं, स्थूलः-अत्यन्तमांसलोऽयं मनुष्यादिः, तथा प्रमेदुर:-प्रकर्षण मेदासम्पन्नः तथा बध्यो-व्यापादनीयः, पाक्य इति च नो वदेत्, पाक्यः-पाकप्रायोग्यः, कालप्राप्त इत्यन्ये, नो वदेत्-न ब्रूयात् तदप्रीति-तद्व्यापत्त्याशङ्कादिदोषप्रसङ्गादिति |७.२२।।
परिवूढ ति णं बूया, बूया उवचिय त्ति य । संजाए पीणिए वा वि, महाकाइ त्ति आलवे ।।७.२३।।
(ति.) कारणे त्वेवं ब्रूयात्-परिवृद्धः-परिसमन्ताद् वृद्धः, वृद्धिं गतः । अयं स्थूलमनुष्यादिरिति । ब्रूयादुपचितमिति च । सञ्जातः । प्रीणितः-सस्निग्धः | महाकाय इति चालपेत् ।।७.२३।।