________________
२२२
दशवैकालिकं-टीकात्रिकयुतम् नवरं पुरुषाभिलापेन योजना कार्येति उक्तः पुरुषमप्याश्रित्यालपनप्रतिषेधो विधिश्च ||७.२०।। पंचेंदियाण पाणाणं, एस इत्थि अयं पुमं । जाव णं न विजाणिज्जा, ताव जाइ त्ति आलवे ।।७.२१।।
(ति.) अधुना पञ्चेन्द्रियतिर्यग्गतं वागविधिमाह-स्पष्टः । नवरम् । जाइ त्ति आलवे-जात्या आलपेत् । एषः-प्रश्नादिकार्ये। दूरे गां दृष्ट्वा, इतो गोरूपाद् वामेन दक्षिणेन वा मार्ग ? इत्यादिकं गोपालादि पृछ्यते । अन्यथा लिङ्गव्यत्ययेनौक्तौ
मृषावाददोषः स्यात ।
आह पर:-एकेन्द्रियाणां नारकाणां च नपुंसकत्वे सत्यपि मृत्तिका, पाषाण, आपो, घनरसः, ज्वलना, पवन, सिमा लता, शङ्खः, शुक्तिका, कीटिका, मत्कोटकः, भृङ्गी, भृङ्गः नारक इत्यादीनां मिङ्मव्यत्ययेनोच्यमानत्वान्न मृषावादः ?
गुरुराह-व्यवहारसत्येन सत्यमेवैतत् । यथा दह्यते गिरिः । गलति भाजनम् । अनुदरा कन्या । ततो नात्र मृषादोषः । ७.२१।।
(स.) पञ्चेन्द्रियतिर्यक्सम्बन्धिनं वचनविधिमाह-पञ्चिदि...इति । पञ्चेन्द्रियाणां प्राणिनां गवादीनां क्वचिद् दूरदेशे स्थितानाम्-'एषा स्त्री गौः, अयं पुमान् बलीवर्दः, यावदेतद्विशेषेण न विजानीयात् तावन्मार्गे प्रश्नादौ प्रयोजने समुत्पन्ने सति जाति निमित्तमाश्रित्यालपेत, अस्माद् गोरूपजातात कियद् दूरेणेत्येवमादि, अन्यथा लिङ्गव्यत्यय-सम्भवान्मृषावादस्योत्पत्तिः स्यात्, बालगोपालादीनामपि विपरिणाम इत्येवमादयो दोषा भवन्ति ।।७.२१।।
(सु.) अधुना पञ्चेन्द्रियतिर्यग्गतं वाग्विधिमाह-पंचिंदियाणं इति, पञ्चेन्द्रियाणां प्राणिनां गवादीनां क्वचिद्विप्रकृष्ट-देशावस्थितानाम एषा स्त्री गौः, अयं पुमान बलीवर्दः, यावदेतदविशेषेण न विजानीयात, तावनमार्गप्रश्नादौ प्रयोजने उत्पन्ने सति जातिमाश्रित्यालपेत्, अस्माद् गोरूपजातात् कियद् दूरेणेत्येवमादि, अन्यथा लिङ्ग-व्यत्ययसम्भवात् मृषावादापत्तिः, गोपालादीनामपि विपरिणाम इत्येवमादयो दोषा इति । आक्षेप-परिहारौ तु वृद्धविवरणादवसेयौ, तच्चेदं "जइ लिंगवच्चए दोसो ता कीस पुढवाईए नपुंसगत्तेऽवि, पुरिसित्थिनिदेसो पयट्टइ, जहा पत्थरो मट्टिया