________________
सप्तमम् अध्ययनम्
२२१
(ति.) सांप्रतं पुरुषमाश्रित्याह - आर्यकः - पितामहो मातामहश्च । प्रार्यकः - प्रपितामहः प्रमातामहश्च । बप्पः-वप्ता । चुल्लपिउ त्ति - पितृव्यः । मातुलः, भागिनेयः पुत्रः । नप्तेति च - पौत्रः ।।७.१८ ।।
(स.) साम्प्रतं पुरुषमधिकृत्याह - अज्जए इति । साधुरिति न वदेत्, इतीति किं ? आर्यकः प्रार्यकश्चापि, बप्पचुलकपितेति च, तथा मातुल भागिनेयेति, पुत्र नप्त इति च, इह भावार्थः स्त्रियामिव द्रष्टव्यः, नवरं चुल्लवप्पः पितृव्योऽभिधीयते । ।७.१८।।
(सु.) सांप्रतं पुरुषमधिकृत्याह - अज्जए पज्जए 'इति, आर्यकः प्रार्यकश्चापि बप्पश्चुल्लपितेति च, तथा मातुल भागिनेय इति, पुत्रः नप्त इति च, इह भावार्थ: स्त्रियामिव द्रष्टव्यः, नवरं चुल्लबप्पः - पितृव्योऽभिधीयत इति ।।७.१८।।
हो (भो) हलि त्ति अन्नि त्ति, भट्टे सामिय गोमिय हाले गोले वसुलि त्ति, पुरिसं नेवमालवे 11७.१९।।
(ति.) हे ! भो !, हला !, अन्य !, भर्त्तः ! स्वामिन् !, गोमिन् !, होल !, गोल !, वसुल ! इति पुरुषं नैवमालपेत् । अत्र भावार्थः पूर्ववत् ।।७.१९।।
(स.) हे ! भो ! इति - किञ्च हे अन्न ! हे भट्ट ! हे स्वामिन् ! हे होल ! हे गोल ! हे वसुलेति साधुः पुरुषं नैवमालपेदिति ।।७.१९ । ।
(सु.) हे भो हलि त्ति, अन्ने त्ति भट्ट स्वामिन् गोमिन् होल गोल वसुलि त्ति पुरुषं नैवमालपेदित्यत्रापि भावार्थः पूर्ववदेवेति । ।७.१९।।
नामधिज्जेण णं बूया, पुरिसं गुत्तेण वा पुणो । जहारिहमभिगिज्ज, आलविज्ज लविज्ज वा ।। ७.२० । । त्रिभिर्विशेषकम् । (ति.) कथं तर्ह्यालपेत्-अर्थः प्राग्वत् । उक्तः पुरुषालापनिषेध-विधी ।।७.२० ।। (स.) यदि नैवमालपेत् ?, तर्हि कथमालपेदित्याह - नाम...इति । व्याख्या पूर्ववत्, नवरं पुरुषाभिलापेनार्थयोजना कार्या उक्तः पुरुषमप्याश्रित्यालपनप्रतिषेधो विधिश्च
।।७.२० ।।
(सु.) यदि नैवमालपेत् ? कथं तर्ह्यालपेत् ? इत्याह-नामधिज्जेणं ति पूर्ववदेव,
-