________________
दशवैकालिकं-टीकात्रिकयुतम्
(सु.) हले ! हले ? त्ति, हले ? इत्येवं ! अन्ने इत्येवं तथा भट्टे ! स्वामिनि ! गोमिनि, तथा हले ! गोले ! वसुले ! इत्येतान्यपि नानादेशापेक्षया स्त्र्यामन्त्रणवचनानि गौरव-कुत्सादिगर्भाणि वर्त्तन्ते, यतश्चैवं ? - अतः स्त्रियं नैवं हो (ह) लादिशब्दैरालपेदिति, दोषाश्चैवमालपनं कुर्वतः सङ्ग - गर्हा - तत्प्रद्वेष - प्रवचनलाघवादय इति । ।७.१६।।
२२०
नामधिज्जेण णं बूया, इत्थिगुत्तेण वा पुणो ।
जहारिहमभिगिज्ज, आलविज्ज लविज्ज वा । ।७.१७ । ।त्रिभिर्विशेषकम् ।
(ति.) कथं तर्ह्यालपेत् ? इत्याह - नामधेयेन - प्रशस्तेन नाम्नैव । स्त्रीगोत्रेण वाहे काश्यपगोत्रे इत्यादि । यथार्हम् - यथायोग्यं, वयोदेशैश्चर्याद्यपेक्षपया । गुणदोषानालोच्य बालां युवतिं वृद्धां च - बाले !, भद्रे !, धर्मशीले ! इत्येवं आ-ईषल्लपेत् । बहुतरं वा कार्यवशात् लपेत् ।। उक्तः स्त्रीं प्रत्यालापनिषेधो विधिश्च ।।७.१७ ।।
नाम...
(स.) अथैवं पूर्वोक्तप्रकारेणालपनं न कुर्यात् ? तर्हि कथं कुर्यात् ? इत्याह.. इति - साधुर्नामधेयेन नाम्नैव क्वचित् कारणे एतां स्त्रियं ब्रूयात् यथा हे देवदत्ते इति, अथ नाम्नोऽस्मरणे गोत्रेण वा ब्रूयात् स्त्रियं यथा हे काश्यपगोत्रे इति, परं यथायोग्यं यथार्हमभिगृह्य वयोदेशैश्वर्याद्यपेक्षया गुणदोषानालोच्य तदालपेत् लपेत् वा, ईषत् सकृद् वा लपनमालपनं, लपनं वारंवारम्, अतोऽन्यथा, तत्र च या वृद्धा मध्यदेशे ईश्वरा धर्मप्रिया अन्यथोच्यते धर्मशीला इत्यादिना, अन्यथा च यथा न लोकोपघात इति - उक्तः स्त्रियमधिकृत्यालपननिषेधो विधिश्च ।। ७.१७ । ।
(सु.) यदि नैवमालपेत् ? कथंतर्हि आलपेत् ? इत्याह-नामधिज्जेणं' इति, नामधेयेनेति-नाम्नैव नामधेयेनैनां ब्रूयात्, स्त्रियं क्वचित्कारणे, यथा देवदत्ते ! इत्येवमादि, नामास्मरणादौ गौत्रेण वा पुनर्ब्रूयात् स्त्रियं यथा काश्यपगोत्रे ! इत्येवमादि, यथार्हंयथायोग्यं वयोदेशैश्वर्याद्यपेक्षया अभिगृह्य-गुणदोषानालोच्याऽऽलपेल्लपेद् वा, ईषत् सकृद् वा लपनं आलपनं, लपनमतोऽन्यथा, तत्र वयोवृद्धा मध्यदेशे ईश्वरा धर्म्मप्रिया, अन्यत्रोच्यते धर्मशीले इत्यादि, अन्यथा च यथा न लोकोपघात इति उक्तः स्त्रियमधिकृत्यालपन-प्रतिषेधो विधिश्च ।।७.१७ । ।
-
अज्जए पज्जए वा वि, बप्पो चुल्लपिउत्ति य ।
माउला भायणिज्ज त्ति, पुत्ते नत्तुणिय त्तिय ।।७.१८ । । १. भाइणिज्ज' पाठोयमन्यत्र मुद्रितः ।।