________________
सप्तमम् अध्ययनम्
अज्जिए पज्जिए वा वि, अम्मो माउसिय त्तिय । पिउस्सिए भायणिज्ज त्ति, धूए नत्तुणिइ ( अ ) त्तिय ।।७.१५ ।।
२१९
( ति.) एवं सामान्येन स्त्रीपुंसयोराभाषणनिषेधं विधायाधुना स्त्रीमधिकृत्याहआर्थिके ! प्रार्थिके ! वापि । अम्ब ! मातृस्वसः ! इति । पितृस्वसः ! भागिनेयी इति । दुहितः । नप्तृके ! इति च । एतानि आमन्त्रणवचनानि प्रतीतानि । नवरम् । पितुर्मातुर्माता - आर्यिका । तस्यापि माता प्रार्थिका ।।७.१५ ।।
(स.) अथ स्त्रियमाश्रित्याह- अज्जिए इति । साधुरेतानि वचनानि न वदेत्, तानि कानि ? - तदाह - हे आर्थिके, हे प्रार्थिके, वा हे अंब, हे मातृष्वसः, हे पितृष्वसः, हे भागिनेय, हे दुहितः, हे नत्रि ! एतानि वचनानि स्त्रिया आमन्त्रणे वर्तन्ते, तत्रैषां शब्दानामर्थस्त्वेवं-तत्र मातुः पितुर्या माता सा आर्यिका, तस्या अपि माता अन्या सा प्रार्थिका, अन्येषां पदार्थः सुगम एव ।।७.१५।।
(सु.) एवं स्त्रीपुरुषयोः सामान्येन भाषणप्रतिषेधं कृत्वा अधुना स्त्रियमधिकृत्याहअज्जिए'इति, आर्यि(र्जि) के प्रार्थि (र्जि) के वापि अम्ब मातृष्वस इति च पितृष्वसः भागिनेयी-इति, दुहितः नप्तृ इति च एतानि स्त्र्यामन्त्रणवचनानि वर्त्तन्ते तत्र मातुः पितुर्वा माता आर्यिका, तस्या अपि या अन्या माता सा प्रार्थिका, शेषाभिधानानि प्रकटार्थानि एवेति सूत्रार्थः ।।७.१५।।
,
• हले हलि त्ति अन्नि त्ति, भट्टे सामिणि गोमिणि ।
होले गोले वसुलि त्ति, इत्थियं नेवमालवे ।।७.१६ ।।
(ति.) हले ! हले ! अन्ये ! भट्टे ! स्वामिनि ! । होले ! गोले ! वसुले ! इति - एतानि नानादेशापेक्षया गौरवकुत्सागर्भाणि स्त्र्यामन्त्रणानि । ततः स्त्रियं नैतैरालपेत् । एवमालापनेऽनुरागा-ऽप्रीतिक-प्रवचनलाघवादिदोषाः । ।७.१६ ।।
(स.) हले ! इति - पुनः किञ्च साधुः स्त्रियं प्रति नैवं हो (ह) लादिशब्दैरालपेत्. कथम्? एवमालपनं कुर्वतः साधोः स्वगर्हा-तत्प्रद्वेष - वचनलाघवादयो दोषा भवन्ति, के ते होलादिशब्दा इत्याह- पूर्वं ये उक्ताः पुनः हले हले इत्येवमन्ने इति, तथा भट्टे स्वामिनि, गोमिनि, होले, गोले, वसुले, इति एतान्यपि नानादेशापेक्षया स्त्रीणामामन्त्रणवचनानि गौरव - कुत्सादिगर्भाणि वर्तन्ते ।।७.१६।।
१. १४मी गाथायाम् ।।