________________
ર૧૮
दशवैकालिकं-टीकात्रिकयुतम् नपुंसकं पण्डक इति वा, व्याधिमन्तं वापि रोगी इति, स्तेनं-चौरं चौर इति नो वदेत्, अप्रीति-लज्जा-नाश-स्थिररोग-बुद्धि-विराधनादिदोषप्रसङ्गादिति ।।७.१२ ।।
एएणऽन्नेण अटेण, परो जेणुवहम्मइ | आयारभावदोसन्नू, न तं भासिज्ज पन्नवं ।।७.१३।।
(ति.) एतेनान्येनार्थेन-उक्तेन सता । परो येनोपहन्यते । आचारभावदोषज्ञःयतिः । न तं भाषेत प्रज्ञावान् ।।७.१३।।
(स.) ततः किं कर्तव्यमित्याह-एएण'इति-प्रज्ञावान् बुद्धिमान् साधुस्तमर्थं न भाषेत, किंभूतः साधुः ? बुद्धिमान् आचारभावदोषज्ञः, आचारभावस्य दोषान् जानातीत्याचारभावदोषज्ञः, तमर्थं कं ? येन-एतेनान्येन वा उक्तेन कथितेनार्थेन केनचित् प्रकारेण परोऽन्य उपहन्यते पीडावान् भवति. ७.१३।।
(सु.) एएणं ति, एतेनान्येन वाऽर्थेनोक्तेन सता परो येनोपहन्यते, येन केनचित् प्रकारेण आचारभावदोषज्ञो यतिर्न तं भाषेत प्रज्ञावान् तमर्थमिति |७.१३।।
तहेव होले गोलि त्ति, साणे वा वसुल(लि) त्ति य । दमए दूहए वा वि, नेवं भासिज्ज पन्नवं ।।७.१४।।
(ति.) तथैव होले गोल इति । श्वा वा पांशुल इति । द्रमको दुर्भगो वापि नैव भाषेत प्रज्ञावान् । होलादिशब्दा देशान्तरेषु सम्बोधने नैष्ठुर्यवाचका इति नोच्यन्ते ।।७.१४।।
(स.) पुनः साधु कीदृशी भाषां न भाषेत ? इत्याह-तहेव इति बुद्धिमान् साधुस्तथैव तां भाषां न भाषेत, तां काम् ? इत्याह-होल १ गोल २ इति, श्वा ३ वसुल ४ इति, द्रमक ५ इति, दुर्भग इति, इह होलादिशब्दास्तत्तद्देशेषु प्रसिद्धनिष्ठुरतादिवाचका अप्रीत्युत्पादकाश्च, अतस्तेषां प्रतिषेधः प्रोक्तः इति स्त्रीपुरुषयोः सामान्येन भाषणनिषेधः कृतः |७.१४ ।।
(सु.) तहेव इति, तथैव, होले गोले इति श्वा वा वसुल इति, द्रमको दुर्भगश्चापि नैवं भाषेत प्रज्ञावान्, इह होलादिशब्दास्तत्तद्देशप्रसिद्धितो नैष्ठुर्यादिवाचकाः, अतस्तत्प्रतिषेध इति ।७.१४ ।।
१. वसुल छीनाल १० टि. ।।