________________
सप्तमम् अध्ययनम्
२१७ तुशब्दात् अनवद्यं, तदेवमेतदिति निर्दिशेत्, अन्ये पठन्ति-स्तोकस्तोकमिति, तत्र परिमितया वाचा निर्दिशेदिति ।।७.१०।।
तहेव फरुसा भासा, गुरुभूओवघाइणी । सच्चा वि सा न वत्तव्वा, जओ पावस्स आगमो |७.११।।
(ति.) यथा अज्ञातं शङ्कितं वा 'एवमेतत् इति न वाच्यम् । तथैव-कस्यचित् पूर्व दासस्य सतः कुत्रापि गतस्य | गुरुभूतस्य-प्रधानीभूतस्य । उपघातिनी-छायापातकरी त्वं दासोऽभूत्'इत्येवंरूपा फरुसा भासा सत्यापि न वक्तव्या । यतः-तस्यासमाधानेन। स्वस्य पापस्यागमः स्यात् ।।७.११।।
(स.) पुनः कीदृशी भाषां न वदेत्-इत्याह-तहेव...इति-तथैव साधुना परुषा कठोरा भाषा भावस्नेहरहिता न वक्तव्या, पुनर्या किंभूता भाषा ? गुरुभूतोपघातिनी बहुप्राणघातकारिणी भवति, सा सर्वथा सत्यापि बाह्यार्थतया भावमङ्गीकृत्य-यथा कश्चित् क्वचित् कुलपुत्रत्वेन प्रतीतस्तं प्रति-अयं दास इति न वदेत्, यतो यस्या भाषायाः सकाशात् पापस्यागमो भवेत्,
(सु.) तहेव'इति, तथैव, परुषा भाषा-निष्ठुरा साधुभावस्नेहरहिता गुरुभूतोपघातिनीमहाभूतोपघातवती, यथा [भवति तथा] कश्चित् कस्यचित् कुलपुत्रत्वेन प्रतीतः, तं दासमित्यभिदधतः, सर्वथा सत्यापि सा बाह्यार्थातथाभावमङ्गीकृत्य न वक्तव्या, यतो यस्या भाषायाः सकाशात् पापस्यागमः-अकुशलबन्धो भवति |७.११।।
तहेव काणं काणि(ण) ति, पडगं पडगि(ग) त्ति वा । वाहियं वा वि रोगि त्ति, तेणं चौर त्ति नो वए ।७.१२।। (ति.) अप्रीत्यादिदोषप्रसङ्गात् । अर्थः सुगमः |७.१२ ।।
(स.) पुनः कीदृशीं भाषां न वदेत् ? इत्याह-तह...इति, साधुस्तथैव काणं भिन्नाक्षं पुरुषं प्रति-अयं काण इति नो वदेत्, तथा पण्डकं प्रत्ययं पण्डको नपुंसक इति नो वदेत्, तथा व्याधिमन्तं प्रति-अयं रोगीति नो वदेत्, तथा स्तेनं चौरं प्रति-अयं चौर इति नो वदेत. कुतः ? अप्रीतिलज्जानाशस्थिररोगबुद्धिविराधनादिदोषा अनुक्रमेण भवन्ति. |७.१२।।
(सु.) तहेव'इति, तथैवेति पूर्ववत्, काणं-भिन्नाक्षं काण इति, तथा पण्डकं