________________
२१६
दशवैकालिकं-टीकात्रिकयुतम् (ति.) किञ्च-अईयम्मि...] स्पष्टः । अयमज्ञातभाषणप्रतिषेधः ।।७.८ ।।
(स.) अईअं'इति-पुनः किञ्च साधुरतीते च काले, तथा प्रत्युत्पन्ने वर्तमाने, अनागते च काले यमर्थं तु न जानीयात् सम्यगेवमयमिति, तमर्थमङ्गीकृत्यैवमेतदिति न वदेन्न ब्रूयात्, अयमज्ञातस्यार्थस्य भाषणे निषेध उक्तः ।.७.८ ।।
(सु.) किञ्च-अईअंमि इति, अतीते च काले तथा प्रत्युत्पन्ने-वर्तमाने अनागते च यमर्थं तु न जानीयात् ‘सम्यगेवमयमिति, तमङ्गीकृत्य एवमेतदिति न ब्रूयादिति, अयमज्ञातभाषण-प्रतिषेधः |७.८।।
अईयम्मि य कालम्मि, पच्चुपन्नमणागए । जत्थ संका भवे जं तु, एवमेयं ति नो वए |७.९।। (ति.) [अईयम्मि....इति] स्पष्टः |७.९।।
(स.) अइअंमि'इतिसाधुरतीते काले च प्रत्युत्पन्ने, अनागते यत्रार्थे शङ्का सन्देहो भवेत्, तं शङ्कितमर्थमाश्रित्यैवमेतदिति निश्चयं न वदेत्, अयमपि निषेधः शङ्कितस्य भाषणे प्रतिषेधरूपः |७.९।।। __ (सु.) अईयम्मि-अतीते च काले प्रत्युत्पन्नेऽनागते यत्रार्थे शङ्का भवेदिति तमप्यर्थमाश्रित्यैवमेतदिति न ब्रूयादिति, अयमपि विशेषतः शङ्कितभाषणप्रतिषेधः ||७.९।।
अईयम्मि य कालम्मि, पच्चुपन्नमणागए | निसंकियं भवे जं तु, एवमेयं ति आलवे ||७.१०।। (ति.) [अईयम्मि...इति] स्पष्टः ।।७.१० ।।
(स.) तर्हि कीदृशं वचनं वदेत् ?-इति,आह-अईअम्मि'इति-साधुरतीते च काले, प्रत्युत्पन्ने वर्तमानकाले, अनागते च काले यदर्थजातं निःशङ्कितं शङ्कारहितं. निस्सन्देहं भवेत्, तुशब्दात-यन्निष्पापं च भवेत्, तत्'एवमेतदितिनिर्दिशेत, अन्ये त्वाचार्या इत्थं वदन्ति, स्तोकं स्तोकमिति परिमितया वाचा निर्दिशेत्. ।७.१० ।।
(सु.) अईयंमि, अतीते च काले प्रत्युत्पन्ने अनागते निःशङ्कितं भवेत्, यदर्थजातं १. नालवे-१.-३.५ ।।