________________
सप्तमम् अध्ययनम्
२१५
तस्माद् 'गमिष्याम एव श्व इतोऽन्यत्र, वक्ष्याम एव श्वस्तत्तदौषधनिमित्तमिति, अमुकं वा नः कार्यं वसत्यादि भविष्यत्येव, अहं चेदं लोचादि करिष्यामि नियमेन, एष वा साधुरस्माकं विश्रामणादि करिष्यत्येवेति ।।७.६ ।।
एवमाइ उ जा भासा, एसकालम्मि संकिया । संपयाईयमढे वा, तं पि धीरो विवज्जए |७.७।।
(ति.) एवमादि-कापि या भाषा, एष्यत्काले शङ्किता । साम्प्रतातीतेऽपि वाकाले । तामपि धीरो विवर्जयेत् । निश्चितं न वदेत् । निश्चितोक्तस्यान्यथाभावेन व्यभिचारात् मृषावादापत्तिरिति ।।७.७ ।।
(स.) तर्हि किं कर्तव्यं ?-इत्याह-एवं'इति-धीरः पण्डितः साधुरेवमाद्या या भाषा, आदिशब्दात् पुस्तकं ते दास्याम्येवेत्यादिग्रहणम्, एष्यत्काले भविष्यत्कालविषया बहुविघ्नत्वान्मुहूर्तादीनां शङ्किता किमिदमित्थमेव भविष्यति ?, उतान्यथा इत्यनिश्चितगोचरा, तथा साम्प्रतातीतार्थयोरपि या शङ्किता, साम्प्रतार्थे स्त्रीपुरुषयोरनिश्चये सत्येष पुरुष इति. अतीतार्थेऽप्येवमेव बलीवर्द-तत्स्त्र्याद्यनिश्चये तदा गौरस्माभिर्दृष्ट इति याप्येवंभूता भाषा शङ्किता, तामपि विवर्जयेत्, तथाभावनिश्चयाभावेन व्यभिचारतो मृषात्वस्योपपत्तेर्विघ्नतो गमनादौ गृहस्थमध्ये लाघवादिप्रसङ्गात् सर्वमेव सावसरं वक्तव्यमिति रहस्यम् ।।७.७।।
(सु.) एवमाइ उ इति, एवमाद्या तु या भाषा, आदिशब्दात् पुस्तकं ते दास्याम्येवेत्येवमादिपरिग्रहः, एष्यत्काले-भविष्यत्कालविषया, बहुविघ्नत्वान्मुहूर्त्तादीनां शङ्किताकिमिदमित्थमेव भविष्यति, उतान्यथेत्यनिश्चितगोचरा, तथा साम्प्रतातीतार्थयोरपि या शङ्किता, साम्प्रतार्थे स्त्रीपुरुषाविनिश्चये एष पुरुष इति, अतीतार्थेऽप्येवमेव बलीवर्द-तत्स्त्र्याद्यनिश्चये तदात्र गौरस्माभिर्दृष्ट इति । याप्येवंभूता भाषा शङ्किता तामपि धीरो विवर्जयेत्, तत्तथाभावनिश्चयाभावेन व्यभिचारतो मृषात्वोपपत्तेविघ्नतोऽगमनादौ गृहस्थमध्ये लाघवादिप्रसङ्गात, सर्वमेव सावसरं वक्तव्यमिति । ७.७।।
अईयम्मि य कालम्मि, पच्चुपन्नमणागए | जमटुं तु न जाणिज्जा , एवमेयं ति नो वए |७.८।।