________________
२१४
दशवैकालिकं-टीकात्रिकयुतम् तदपि वितथम् । तस्मादपि भाषणात् । स्पृष्टः-बद्धः । स मृषाभाषणकर्मणा । किं पुनर्यः सर्वथा मृषा वक्ति । स सुतरां बध्यत एव ।।७.५।।
(स.) सांप्रतं मृषाभाषायाः संरक्षणार्थमाह-वितह'इति वितहमिति-यो नरो वितथमसत्यं तथामूर्त्यपि कथञ्चित् तत्स्वरूपं वस्तु पुरुषनेपथ्यस्थितवनिताद्यप्यङ्गीकृत्य यां गिरं भाषते, यथेयं स्त्री आगच्छति गायति वेत्यादिरूपाम्, असावपि नरस्तस्माद् भाषणादेवंभूताद् भाषणात् पूर्वमेव भाषणाभिसन्धिकाले पापेन कर्मणा स्पृष्टो बद्धः किं पुनर्यो मृषा प्राणघातकारिणीं वाचं वदेत्, स वक्तातिशयेन पापकर्मणा बद्ध्यत इत्यर्थः ।।७.५।।
(सु.) सांप्रतं मृषाभाषासंरक्षणार्थमाह-वितहं'पि, वितर्थ-अतथ्यं तथामूर्त्यपिकथञ्चित् तत्स्वरूपमपि वस्तु, अपिशब्दस्य व्यवहितः सम्बन्धः, एतदुक्तं भवतिपुरुषनेपथ्यस्थितवनिताद्यप्यङ्गीकृत्य यां गिरं भाषते नरः, इयं स्त्री आगच्छति, गायति च'इत्यादिरूपां, तस्माद् भाषणादेवम्भूतात् पूर्वमेवासौ वक्ता भाषणाभिसन्धिकाले स्पृष्टः पापेन-बद्धः कर्मणा, किं पुनर्यो मृषां वक्ति ?, भूतोपघातिनीं वाचं स सुतरां बाध्य(बद्ध्य)त-इति ।७.५।।
तम्हा गच्छामो वक्खामो, अमुगं वा णे भविस्सइ | अहं वा णं करिस्सामि, एसो वा णं करिस्सइ ७.६।।
(ति.) यस्मादेवं ? - तस्माद् गमिष्याम एव प्रातरितोऽन्यत्र । वक्ष्याम एव तत् तद्दोषध-निमित्तम् । अमुकं वा नः कार्यं वसत्यादिकं भविष्यत्येव । अहं वेदं लोचादि करिष्यामि नियमेन । एष वा साधुरस्माकं विश्रामणादि करिष्यत्येवेति । ७.६ ।।
(स.) पुनः कीदृशी भाषां साधुर्न वदेत् ?-इत्याह-तम्हा'इति-यस्माद् वितथं तथामूर्त्यपि वस्त्वङ्गीकृत्य भाषमाणो बद्ध्यते पापकर्मणा, तस्माद् वयं गमिष्याम एव श्व इतोऽन्यत्र, वक्ष्याम एव श्वस्तत्तदौषधनिमित्तममुकं वा. नोऽस्माकं वसत्यादि कार्यं भविष्यत्येव, अहं चेदं लोचादि करिष्यामि नियमेन, एष वा साधुरस्माकं विश्रामणादिकं करिष्यत्येव. |७.६।।
(सु.) तम्हा'इति, यस्माद् वितथं तथामूर्त्यपि वस्त्वङ्गीकृत्य भाषमाणो बंद्ध्यते
१. दोष. १.२,०दोषध.३.४, ०दौषध.५ ।।