________________
सप्तमम् अध्ययनम्
_ . २१३ (ति.) सत्यामृषां पुनर्विशेषण प्रतिषेधयति-एतं चार्थम्-अनन्तरप्रतिषिद्धं सावा कर्कशम्-अन्यं वा-एवंजातीयम् । एतन्मध्याद् यः कश्चिदर्थी नामयति-'अननुगुणं करोति । शाश्वतम्-मोक्षम् । तम् अर्थं स्वीकृत्य स-साधुः । पूर्वोक्तभाषाभाषकत्वेनाधिकृतः। भाषां सत्यामृषामपि-अपिशब्दाद् या सत्या तामपि धीरो विवर्जयेत् ।।७.४ ।।
(स.) सांप्रतं सत्यामृषाभाषाप्रतिषेधार्थमाह-एअं'इति-धीरो बुद्धिमान् साधुः, एतं चार्थं पूर्वं प्रतिषिद्धं सावद्यकर्कशवचनविषयं च, एतज्जातीयमेतत्सदृशं प्राकृतत्वात्, यस्तु नामयति, शाश्वतम्, अत्र य एवं कश्चिदर्थो नामयति, कोऽर्थः ? अननुगुणं करोति, कोऽर्थः ? मोक्षमनुकूलं न करोति, स शाश्वतं मोक्षमाश्रित्य पूर्वोक्तभाषाभाषकत्वेनाधिकृतो भाषां सत्यामृषामपि पूर्वोक्ताम्, अपिशब्दात् सत्यापि या तथाभूता, तामपि भाषां विवर्जयेत्. । ७.४ ।।
(सु.) साम्प्रतं सत्यामृषाप्रतिषेधार्थमाह-एअं च'इति, एतं चार्थमनन्तरप्रतिषिद्धं सावद्यकर्कशविषयमन्यं वा, एवंजातीयं प्राकृतशैल्या, यस्तु नामयति शाश्वतं, य एव कश्चिदर्थो नामयति-अननुगुणं करोति, शाश्वतं-मोक्षं, तमाश्रित्य स साधुः पूर्वोक्तभाषाभाषकत्वेनाधिकृतो भाषां सत्यामृषामपि पूर्वोक्तां, अपिशब्दात् सत्यापि या तथाभूता तामपि धीरो-बुद्धिमान् विवर्जयेत्-न ब्रूयादिति भावः । आह-सत्यामृषाभाषाया ओघत एव प्रतिषेधात् तथाविधसत्यायाश्च सावद्यत्वेन, गतार्थं सूत्रमिति, उच्यते, मोक्षपीडाकरं सूक्ष्ममप्यर्थं अङ्गीकृत्यान्यतरभाषा-भाषणमपि न कर्त्तव्यमित्यतिशयप्रदर्शनपरमेतददुष्टमेवेति ।।७.४।। वितहं पि तहामुत्तिं, जं गिरं भासई नरो । तम्हा सो पुट्ठो पावेणं, किं पुण जो मुसं वए ? |७.५।।
(ति.) आह परः-ओघतः सत्यामृषा, सावद्यरूपा सत्या च, प्रागेव निषिद्धा किं पुनरिदम्? मोक्षपीडाकरम् अर्थमङ्गीकृत्य कापि भाषा न भाषणीयेति प्रदर्शनार्थमिति । तथा ओघतोऽग्रेऽपि मृषा प्रतिषिद्धा, विशेषतः पुनराह - तथामूर्त्यपि स्वीकृतपुरुषवेषमपि स्त्र्यादिकम् आश्रित्य, यां गिरं भाषते नरः 'इयं स्त्री आगच्छति-इत्यादि । १. प्रतिकूलम् १० टि. ||