________________
२१२
दशवैकालिकं-टीकात्रिकयुतम् आमन्त्रण्याज्ञापन्यादिलक्षणा अविधिपूर्वकं खरादिना प्रकारेण तामपि न भाषेत, इति गाथार्थः यथाभूता च भाषा न वाच्या सोक्ता ।७.२।।
(सु.) विनयमेवाह-जा य सच्चा...इति, या च सत्या पदार्थतत्त्वमङ्गीकृत्य, अवक्तव्या-अनुच्चारणीया सावद्यत्वेन-'अमुत्र स्थिता पल्ली'इति कौशिकभाषावत्, सत्यामृषा वा यथा-दश दारका जाता इत्येवंलक्षणा, मृषा च संपूर्णैव, चशब्दस्य व्यवहितः सम्बन्धः, या च बुद्धैः-तीर्थकर-गणधरैरनाचरिता असत्यामृषाआमन्त्रण्याज्ञापन्यादिलक्षणा अविधिपूर्वकं स्वरादिना प्रकारेण, न तां भाषेत, नेत्थंभूतां वाचमुदाहरेत् प्रज्ञावान्-बुद्धिमान् साधुरिति सूत्रार्थः ।।७.२ ।।
असच्चमोसं सच्चं च, अणवज्जमकक्कसं । समुप्पेहमसंदिद्धं, गिरं भासिज्ज पन्नवं ।।७.३।।
(ति.) उक्ता अवाच्या, वाच्यामाह-असत्यामृषां, सत्यां, च अनवद्याम्, अकर्कशाम | समुत्प्रेक्ष्य-विचार्य स्वपरोपकारिणी । असन्दिग्धाम्-स्फुटाम् । गिरं भाषेत् प्रज्ञावान् ।७.३।।
(स.) अथ यथाभूता वाच्या, तामाह-असच्च...इति, प्रज्ञावान् बुद्धिमान्, कः ? साधुः, एवमसत्यामृषामुक्तलक्षणां गिरं भाषां भाषेत, ब्रूयात्, किंभूतां गिरम् ? सत्याम् इयं च भाषा सावद्यापि कर्कशापि भवत्यत आह, किंभूतां गिरम् ? अनवद्याम्, अवयं पापं तेन रहितां, पुनः किंभूतां गिरम ? अकर्कशां कठोरवचनरहितां, किं कृत्वा भाषेत ? समुत्प्रेक्ष्य स्वस्य परस्य चोपकारकारिणी इति बुद्ध्या पर्यालोच्य, पुनः किंभूतां गिरम् ? असन्दिग्धां स्पष्टां तत्कालं प्रतिपत्तिहेतुम् ।।७.३।। ___(सु.) यथाभूता अवाच्या भाषा तथाभूतोक्ता, साम्प्रतं यथाभूता वाच्या तथाभूतामाहअसच्चमोसं'इति, असत्यामृषामुक्तलक्षणां, सत्यां चोक्तलक्षणामेव, इयं च सावद्यापि सकर्कशापि भवति, अत आह-असावद्यां अपापां, अकर्कशामतिशयोक्त्या ह्यमत्सरपूर्वां, संप्रेक्ष्य-स्वपरोपकारिणीति बुद्ध्या आलोच्यासंदिग्धां-स्पष्टामक्षेपेण प्रतिपत्तिहेतुं, गिरंवाचं, भाषेत-ब्रूयात्, प्रज्ञावान्-बुद्धिमान् साधुरिति ।।७.३।।
एयं च अट्ठमन्नं वा, जं तु नामेइ सासयं । स भासं सच्चामोसं पि, तं पि धीरो विवज्जए |७.४।।