________________
२११
सप्तमम् अध्ययनम्
(सु.) व्याख्यातं महाचारकथाध्ययनं, इदानीं वाक्यशुद्ध्याख्यमध्ययनमारभ्यते, अस्य चायमभिसम्बन्धः इहानन्तराध्ययने गोचरप्रविष्टेन सता स्वाचारं पृष्टेन तद्विदाऽपि न महाजनसमक्षं तत्रैव विस्तरतः कथयितव्यमिति, अपि त्वालये गुरवो वा कथयन्तीति वक्तव्यमित्येतदुक्तं, इह त्वालयगतेनापि तेन गुरुणा वा वचनदोषगुणाभिज्ञेन निरवद्यवचसा कथयितव्यमित्येतदुच्यते, उक्तं च-"सावज्जणवज्जाण" मिति अनेन सम्बन्धेनायातमिदमध्ययनमिति, तच्चेदम्-'चउण्हं'चतसृणां, खलुशब्दोऽवधारणे, चतसृणामेव, नातोऽन्या भाषा विद्यत इति । भाषाणां-सत्यादीनां परिसङ्ख्याय-सर्वैः प्रकारैत्विा, स्वरूपमिति वाक्यशेषः । प्रज्ञावान्-प्राज्ञो बुद्धिमान् साधुः, किम् ?-इत्याह-द्वाभ्यां सत्यासत्यामृषाभ्यां, तुरवधारणे, द्वाभ्यामेव आभ्यां, विनयं-शुद्धप्रयोगं, विनीयतेऽनेन कर्मेतिकृत्वा, शिक्षेत-जानीयात्, द्वे-असत्या-सत्यामृषे न भाषेत सर्वशः-सर्वैः प्रकारैरिति | ७.१।।
जा य सच्चा अवत्तव्वा, सच्चामोसा य जा मुसा । जा य बुद्धेहिं नाइन्ना, न तं भासिज्ज पन्नवं ।७.२।।
(ति.) विनयमाह-या च सत्या अवक्तव्या-इत्थं गतो मृग इति व्याधेन पृष्टे, तस्याग्रे गतो मृग इति, सत्यमपि न वाच्यं, सावद्यत्वात् । सत्यामृषा च-अत्र नगरे दश दारका जाता इत्यादिका । या मृषा-सर्वथाप्यसत्या | या च बुद्धैरनाचीर्णाअसत्यामृषा आमन्त्रिणी हे हो हला'इत्यादिका | राज्ञो राजानं प्रत्याज्ञापनी यथा'अस्मै द्विजाय स्वदेशे मदादेशादेको महीयान् ग्रामो देय 'इत्यादिका कर्कशा, न तां भाषेत प्रज्ञावान् ।।७.२।।
(स.) विनयमेवाह-जा'इति-प्रज्ञावान् बुद्धिमान् साधुस्तां भाषां न भाषेत. न इत्थंभूतां वाचमुदाहरेत्, तां काम् ? - इत्याह-या च सत्या भाषा सा यदार्थतत्त्वमङ्गीकृत्यावक्तव्या सावद्यत्वेनानुच्चारणीया, या अमुत्र स्थिता पल्लीति कौशिकनामतापसभाषावत्,
"तत्सत्यमपि न ब्रूयात् परपीडाकरं वचः । तत्सत्यस्य प्रसादेन कौशिको नरकं गतः [ ]"
या च सत्यामृषा साप्यवक्तव्या न वक्तव्या, यथा 'दश दारका जाताः, मृषा च भाषा सर्वैव न वक्तव्या, या च भाषा बुद्धस्तीर्थकरैर्गणधरैश्च नाचीर्णा, असत्यामृषा
૧૫