________________
(|| सप्तमं अध्ययन-वाक्यशुद्धि II)
चउण्हं खलु भासाणं, परिसंखाय पन्नवं | दुण्हं तु विणयं सिक्खे, दो न भासिज्ज सव्वसो |७.१।।
(ति.) अनन्तराध्ययने वसत्यागतस्य स्वाचारः सविस्तरः कथयितव्य इत्युक्तम्, तच्च वचनदोषगुणाभिज्ञेन निरवद्यवचसा वाच्यमित्यनेन सम्बन्धेनायातं वाक्यशुद्ध्यध्ययनं व्याख्यायते । तस्येदमादिसूत्रम् -खलुशब्दोऽवधारणे । चतसृणामेव भाषाणाम्नातोऽन्या भाषा विद्यते । परिसङ्ख्याय-सर्वैः प्रकारैत्विा । प्रज्ञावान् । द्वयोःभाषयोः । विनयम्-विनीयतेऽनेन कर्मेति विनयः । तं विनयं प्रयोगं शिक्षेत । द्वे च भाषे न भाषेत सर्वशः-सर्वथा ।।७.१।। __ (स.) अथ वाक्यशुद्ध्याख्यं सप्तममध्ययनं प्रारभ्यते-चउन्हम्'इति-व्याख्यातं धर्मार्थकामकथानामकं षष्ठमध्ययनम्, अथ वाक्यशुद्धिनामकं सप्तममध्ययनं व्याख्यायते, अस्याध्ययनस्य पूर्वाध्ययनेनायं सम्बन्धः-पूर्वाध्ययन एवमुक्तम्, गोचरीप्रविष्टस्य साधोः केनापि पृष्टं, त्वं स्वकीयमाचारं कथय ? तदा तेन स्वाचारं जानतापि महाजनसमक्षं विस्तरतस्तत्रैव न वक्तव्य आचारः, किन्तूपाश्रये गुरवः कथयिष्यन्ति-इति वक्तव्यम्, इह सप्तमेऽध्ययने तु उपाश्रयगतेनापि तेन गुरुणा वचनदोषगुणाभिज्ञेन निरवद्यवचनेन कथयितव्यम्-इत्येतदुच्यते-उक्तं च
"सावज्जऽणवज्जाणं वयणाणं जो न याणइ विसेसं । वोत्तुं पि तस्स न खमं किमङ्ग पुण देसणं काउं [ ]"
इत्यनेन सम्बन्धेनायातमिदमध्ययनं. तत्र सूत्रं, प्रज्ञावान् बुद्धिमान् साधुर्वाभ्यां सत्यासत्यामृषाभ्यां भाषाभ्यां विनयं शुद्धप्रयोगं शिक्षेत जानीयात्, तुरवधारणे, द्वाभ्यामेवाभ्यां, तव विनय इति कोऽर्थः ? विनीयतेऽनेन कर्म इति विनयस्तं विनयं, पुनर्बे असत्यासत्यामृषे न भाषेत सर्वशः सर्वैः प्रकारैः ? किं कृत्वा ? चतसणां भाषाणां सत्यादीनां परिसंख्याय सर्वैः प्रकारैत्विा, किं ? स्वरूपमिति शेषः खलुशब्दोऽवधारणार्थे, भाषाचतुष्टयमेवास्ति, नान्या भाषा वर्तते. । ७.१।।