________________
२०९
षष्ठम् अध्ययनम्
(सु.) किं च-असोवसंता इति, सदोपशान्ताः-सर्वकालमेव क्रोधरहिताः अममा:सर्वत्र ममत्वशून्याः, अकिञ्चना-हिरण्यादिमिथ्यात्वादि-द्रव्यभावकिञ्चनविनिर्मुक्ताः, स्वा-आत्मीया विद्या स्वविद्या-परलोकोपकारिणी केवलश्रुतरूपा तया स्वविद्यया विद्यया अनुगता-युक्ताः, न पुनः परविद्यया इहलोकोपकारिण्येति, त एव विशेष्यन्ते-यशस्विनःशुद्धपारलौकिकयशोवन्तः, त एवंभूता ऋतौ प्रसन्ने-परिणते शरत्कालादौ विमल इव चन्द्रमा:-चन्द्रमा इव विमलाः, इत्येवंकल्पाः, ते भावमलरहिताः सिद्धिं-निवृत्तिं तथा सावशेषकर्माणो विमानानि-सौधर्मावतं-सकादीन्युपयान्ति-सामीप्येन गच्छन्ति, त्रातार:स्वपरापेक्षया साधव इति ।।२७७ ।। ब्रवीमीति पूर्ववदेव ।।
दशवैकालिकश्रुतस्कन्धषष्ठाध्ययनव्याख्या सुमतिसाधु विहिता समाप्तेति ।
NE