________________
२०८
दशवैकालिकं-टीकात्रिकयुतम् अमोहं ये पश्यन्ति, यथावत् पश्यन्ति य इत्यर्थः, त एव विशेष्यन्ते-तपसि अनशनादिलक्षणे रताः-सक्ताः, किंविशिष्टे तपसि ?-इत्याह-संयमार्जवगुणे, प्राकृतत्वादेकारः, संयमार्जवे गुणौ यस्य तपसस्तस्मिन्, संयमऋजुभावप्रधाने शुद्ध इत्यर्थः, ते एवंभूता धुन्वन्तिकम्पयन्ति अपनयन्ति, पापानि पुराकृतानि-जन्मान्तरोपात्तानि, नवानि-प्रत्यग्राणि पापानि न ते साधवः कुर्वन्ति, तथा अप्रमत्तत्वादिति ||६.६७।।
सओवसंता अममा अकिंचणा, सविज्जविज्जा अणुगया जसंसिणो । उउप्पसन्ने विमलेव चंदमा, सिद्धिं विमाणाई उविंति ताइणो त्ति बेमि ||६.६८।।
(ति.) सदोपशान्ताः । अममाः । अकिञ्चनाः-स्वर्ण-मिथ्यात्वादिद्रव्यरहिताः | स्वविद्या-सिद्धान्तरूपा, तस्याविद्या वेदनं स्वविद्याविद्या, तयानुगता यशस्विनः ऋतौ प्रसन्ने-शरदादौ । विमल इव चन्द्रमा:-निःकर्मत्वेन विमलात्मानः । सिद्धिम्सावशेषकर्माणः विमानानि-सौधर्मादीनि । उपयन्ति । तायिनः-साधवः । इति ब्रवीमिइति प्राग्वत् समाप्ता महाचारकथाऽध्ययने तिलकाचार्यटीका ||६.६८ ।।
(स.) किञ्च-सओव...इति-ताइणो'इति त्रातारः, स्वस्य परस्य चापेक्षया, साधवः सिद्धिं मुक्तिं व्रजन्ति, तथा केऽपि साधवः शेषकर्माणो विमानानि सौधर्मावतंसकादीन्युपयान्ति सामीप्येन गच्छन्ति, किंविशिष्टाः साधवः ? सदोपशान्ताः सर्वकालमेव क्रोधरहिताः, पुनः किंभूताः साधवः ? अममाः सर्वत्र ममत्वशून्याः, पुनः किंभूताः साधवः ? अकिञ्चना हिरण्यादिद्रव्येण मिथ्यात्वादिभावेन च किञ्चनेन मुक्ताः, पुनः किंभूताः साधवः ? स्वात्मीया विद्या स्वविद्या परलोकोपकारिणी केवलश्रुतरूपा, स्वविद्या चासौ विद्या च स्वविद्यविद्या, तया स्वविद्यविद्यया अनुगता युक्ताः, न पुनः परविद्यया इहलोकोपकारिण्या, पुनः किंभूताः साधवः ? यशस्विनः, शुद्धेन परलोकसम्बन्धिना यशसा सहिताः, किंभूताः साधवः? ऋतौ प्रसन्ने परिणते शरत्कालादौ विमल इव चन्द्रमाः, चन्द्रमा इव विमला इत्येवंकल्पास्ते भावमलरहिता इत्यर्थः, ब्रवीमीति पूर्ववत्. ||६.६८।।
|| इति दशवैकालिकसूत्रे धर्मार्थकामाख्ये षष्ठेऽध्ययने श्रीसमयसुन्दरोपाध्यायविरचिता शब्दार्थवृत्तिः समाप्ता. ||६||
१. स्वविद्या चासौ विद्या च तया १० टि. ।। २. 'धम्म-त्थ-कामज्झयणं छठें-इति मुद्रिते वृत्तिग्रन्थे ।।