________________
सप्तमम् अध्ययनम्
२२५
(स.) प्रयोजने तु क्वचिदेवं भाषेत इत्याह- जुवं इति । साधुर्युवा गौरिति दम्योगौर्युवा इति ब्रूयात्, धेनुं गां रसदा इति ब्रूयात्, रसदा गौरिति, तथा ह्रस्वं महल्लकं वापि गोरथकं ह्रस्वं वाह्यं महल्लकं वदेत्, संवहनमिति च रथयोग्यं संवहनं धुर्यं वदेत् । ।७.२५।।
(सु.) प्रयोजने तु क्वचिदेवं भाषेत इत्याह- जुवं गवेत्ति, युवा गौरिति दम्यो गौर्युवेति ब्रूयात्, धेनुं-गां रसदेति च ब्रूयात्, रसदा गौरिति, तथा ह्रस्वं महल्लकं वापि गोरथकं ह्रस्वं वाह्यं महल्लकं वदेत्, संवहनमिति च रथयोग्यं संवहनं वदेत्, क्वचिद् दिगुपलक्षणादौ प्रयोजन इति ।। ७.२५ ।।
तहेव गंतुमुज्जाणं, पव्वयाणि वणाणि य ।
रुक्खा महल्ल पेहाए, नेवं भासिज्ज पन्नवं । । ७.२६ ।।
(ति.) अपि च-तथैव गत्वोद्यानं पर्वतान् वनानि च । वृक्षान् महतः प्रेक्ष्य नैवं वक्ष्यमाणं भाषेत प्रज्ञावान् ।।७.२६।।
(स.) पुनः कीदृशीं भाषां साधुर्न वदेत् ? इत्याह-तहेव 'इति । प्रज्ञावान् साधुरेवं भाषां न भाषेत, किं कृत्वा ? तथैव पूर्ववदुद्यानं जलक्रीडास्थानं गत्वा, तथा पर्वतान् प्रतीतान्, तथा वनानि च तत्र वृक्षान् महतो महाप्रमाणानुत्प्रेक्ष्य दृष्ट्वा ।।७.२६ ।।
(सु.) तहेव गंतुं' इति, तथैवेति पूर्ववत्, गत्वा उद्यानं जनक्रीडास्थानं तथा पर्वतान् प्रतीतान् तथा वनानि च तत्र वृक्षान् महतो - महाप्रमाणान् प्रेक्ष्य-दृष्ट्वा नैवं भाषेत प्रज्ञावान् साधुरिति ।।७.२६।।
अलं पासायखंभाणं, तोरणाण गिहाण य ।
फलिहग्गलनावाणं, अलं उदगदोणिणां ।।७.२७ ।।
(ति.) अलम्-पर्याप्ताः, समर्था, योग्याः । प्रासादानां, स्तम्भानाम् । तोरणानाम्नगरसत्कानाम् । गृहाणाम् - सामान्यवेश्मनाम् । तथा परिघा -ऽर्गला - नावाम् । तथा अलं उदकद्रोणीनाम्-उदकद्रोण्यः - अरघट्टजलधारिकाः ।।७.२७ ।।
(स.) एवं किं न भाषेतेत्याह- अलं' इति । एते वृक्षाः प्रासादस्तम्भानां, तथा परिघा-ऽर्गला-नावां-तत्र नगरद्वारे परिघः, गोपाटादिष्वर्गला, नौस्तु प्रसिद्धा,