________________
२००
दशवैकालिकं टीकात्रिकयुतम् किंविशिष्टा निर्ग्रन्थाः?, इत्याह-बुद्धोक्ताधिष्ठातारः-तीर्थकरोक्तानुष्ठानपरा इत्यर्थः, इह चाप्रत्युपेक्षितासन्द्यादौ निषीदनादिनिषेधात् धर्मकथादौ राजकुलादिषु प्रत्युपेक्षितेषु निषीदनादिविधिमाह विशेषणान्यथानुपपत्तेरिति ।।६.५४ ।।
गंभीरविजया एए, पाणा दुप्पडिलेहगा । आसंदी पलियंका य, एयमटुं विवज्जिया ।।६.५५ ।।
(ति.) एतदेवाह-यो विशिष्टजयो भवति, तं लोका आश्रयन्ते । ततो लक्षणया विजयशब्देन आश्रयोऽभिधीयते । ततश्च गम्भीरविजयाः-अप्रकाशाश्रयाः । एते आसन्दादयः । एषु प्राणा दुःप्रत्युपेक्षाः उक्तं पञ्चदशं,।।६.५५।।
(स.) अत्रैवदोषमाह-गम्भीर'इति-एते आसन्दी-पर्यङक-मञ्चादयः गम्भीरविजयाः, गम्भीरोऽप्रकाशो विजय आश्रयो येषां ते गम्भीरविजया अप्रकाशाश्रयाः प्राणिनां भवन्ति, तेन प्राणिन एतेषु दुष्प्रत्युपेक्ष्या भवन्ति, पीड्यन्ते च तेषामुपवेशनादिना, तेनैतदर्थं साधुभिरासन्धादयो विवर्जितास्त्यक्ताः. ।।६.५५।।
(स.) अत्रैव दोषमाह-गंभीरविजया इति, गम्भीरविजया, गम्भीरं-अप्रकाशं, विजय:आश्रयः अप्रकाशाश्रया, एते-प्राणिनामा-सन्द्यादयः, एवं च प्राणिनो दुष्प्रत्युपेक्षणीया एतेषु भवन्ति, पीड्यन्ते च एतदुपवेशनादिना, आसन्दः पर्यङ्कश्च, चशब्दात् मञ्चादयश्चैतदर्थं विवर्जिताः साधुभिरिति ।।६.५५ ।। उक्तः पर्यङ्कस्थानविधिः, तदभिधानात् पञ्चदशस्थानम्, ।।
गोयरग्गपविट्ठस्स, निसिज्जा जस्स कप्पई । इमेरिसमणायारं, आवज्जइ अबोहियं ।।६.५६ ।।
(ति.) षोडशमाह-गोचराग्रप्रविष्टः-इह षष्ठी प्रथमार्थे, गृहे निषद्याम्-निषदनं यः साधुः, कल्पते-अनेकार्थत्वात् करोति । स ईदृशम्-वक्ष्यमाणम् । अनाचारं अबोधिकम्मिथ्यात्वफलम् । आपद्यते ।।६.५६ ।।।
(स.) अथ षोडशस्थानमुच्यते-गोअर...इति-गोचराग्रप्रविष्टस्य भिक्षार्थं प्रविष्टस्य साधोर्निषद्या कल्पते, गृह एव निषीदनं समाचरति यः साधुरिति भावः, स साधुः खल्वेवमीदृशं वक्ष्यमाणलक्षण-मनाचारमापद्यते प्राप्नोति. किंभूतमनाचारम् ? अबोधिकम्,