________________
षष्ठम् अध्ययनम्
१९९ सिंहासन-मित्यर्थः। एष्वनाचरितम् । आर्याणाम्-साधूनाम् । आसितुं शयितुं वा ||६.५३।।
(स.) साम्प्रतं पञ्चदशस्थानगतं विधिमाह-आसंदी इति-आसन्दी पर्यङ्कः मञ्चश्च, एते त्रयोऽपि प्रसिद्धाः, आशालकस्तु सर्वाङ्गसमन्वित आसनविशेषः, एतेष्वासितुमुपवेष्टुं स्वप्तुं वा निद्रां कर्तुं वा आर्याणां साधूनामनाचरितं, कथं ? सुषिरदोषात्. ।।६.५३ ।।
(सु.) इदानीं पञ्चदशस्थानविधिमाह-आसंदीति, आसन्दी-पर्यङ्कौ प्रतीतौ तयोरासन्दी-पर्यङ्कयोः, मञ्चाऽऽशालकयोश्च मञ्चः प्रतीतः, आशालकस्तु-अवष्टम्भसमन्वित आसनविशेषः, एतयोरनाचरितमनासेवितमार्याणां-साधूनामासितुं-उपवेष्टुं स्वप्तुं वा-निद्रातिवाहनं वा कर्तुं, शुषिरादिदोषादिति ।।६.५३।।
नासंदीपलियंकेस, निसिज्जा न पीठए । . निग्गंथापडिलेहाए, बुद्धवृत्तमहिटगा ।।६.५४।।
(ति.) अपवादमाह-नासन्दी-पर्यङ्कयोः-न निषद्यायाम्-गब्दिका-चक्कलकादिकायाम् । न पीठके-वेत्रमयादौ । निर्ग्रन्था अप्रतिलेख्य नोपवेशनादि कुर्वन्तीति शेषः। कथम्भूतास्ते? बुद्धोक्ताधिष्ठातार:-जिनोक्तानुष्ठानपराः । यतः आसन्धादीनां प्रत्युपेक्षा न शुध्यति । आसन्धादिषु अप्रत्युपेक्ष्य साधव उपवेशनं न कुर्वन्ति । अत्र द्वौ नौ प्रकृत्यर्थं गमयतः । ततश्च एतेषु प्रत्युपेक्ष्य दृष्ट्वा राजकुलादिषु उपविशन्ति ।।६.५४।।
(स.) अत्रैव स्थानेऽपवादमार्गमाह-नासं इति नासन्दीपर्यङ्कयोः न निषद्यायामेकादिकल्परूपायां, न पीठके वेत्रमयादौ, चक्षुरादिना अप्रत्युपेक्ष्य निषीदनादि न कुर्वन्तीति वाक्यशेषः । किंभूता निर्ग्रन्थाः ? बुद्धोक्ताधिष्ठातारः, बुद्धेन तीर्थकरेण यत्कथितमनुष्ठानं, तत्र तत्पराः, इह चाप्रत्युपेक्षितेष्वासन्दी-पर्यङ्क-निषद्यादिपीठेषु निषीदनस्य निषेधाद्धर्मकथादौ राजकुलादौ प्रत्युपेक्षितेषु निषीदनादि कुर्वर्त्यपि, अन्यथा अप्रत्युपेक्षितेष्विति विशेषणस्यामिलनं स्यात्. ।।६.५४ ।।
(सु.) अत्रैवापवादमाह-नासंदी-इति, नासन्दी-पर्यङ्कयोः प्रतीतयोर्न निषद्यायांएकादिकल्परूपायां, न पीठके-वेत्रकाष्ठमयादौ निर्ग्रन्थाः-साधवः, अप्रत्युपेक्ष्य-चक्षुरादिना, न निषीदनादि कुर्वन्ति इति वाक्यशेषः, नञ् सर्वत्राभिसम्बध्यते, न कुर्वन्तीति,