________________
दशवैकालिकं- टीकात्रिकयुतम्
(सु.) कथम् ?-इति आह- सीओदग...इति, अनन्तरोद्दिष्टभाजनेषु श्रमणा भोक्ष्यन्ते भुक्तं वैभिरिति शीतोदकेन धावनं कुर्वन्ति । तदाह-शीतोदकसमारम्भे-सचेतनोदकेन भाजनधावनारम्भे तन्मात्रकधावनोज्झने - कुण्डमोदादिषु क्षालनजलत्यागे यानि क्षप्यन्तेहिंस्यन्ते भूतानि - अप्कायादीनि, सोऽत्र - गृहिभाजनभोजने दृष्टः- उपलब्धः, केवलज्ञानभास्वता असंयमस्तस्य भोक्तुरिति ।।६.५१ ।।
१९८
पच्छाकम्मं पुरेकम्मं, सिया तत्थ न कप्पए ।
एयमट्टं न भुंजंति, निग्गंथा गिहिभायणे ।।६.५२ ।।
(ति.) किञ्च...[पच्छा' इति ] स्पष्टः । उक्तं चतुर्दशं ।।६.५२ ।।
(स.) पच्छा'इति-पुनः किञ्च निर्ग्रन्थाः साधव एतदर्थं पश्चात्कर्म-पुरःकर्मपरिहारार्थं गृहिभाजने कांस्यादिके न भुञ्जते, कथं ? यतः पश्चात्कर्म पुरःकर्म च धर्मवतां साधूनां न कल्पते, पश्चात्कर्म-पुरःकर्मभावस्तु उक्तवदित्येके. अन्ये त्वेवं व्याख्यानयन्तिभुञ्जेन्तु तावत्साधवो वयं तु पश्चद् भोक्ष्याम इति पश्चात्कर्म, तस्माद् विपरीतं तु पुरःकर्म इति. गृहिभाजनदोष उक्तः, तस्याभिधानाच्चतुर्दशस्थानविधिरप्युक्तः ।।६.५२।।
(सु.) किञ्च–पच्छाकम्मं'इति, पश्चात्कर्म पुरःकर्म्म स्यात् तत्र-कदाचित् भवेद् गृहिभाजनभोजने, पश्चात्कर्म्म-पुरःकर्म्मभावस्तूक्तवदित्येके । अन्ये तु भुञ्जन्तु तावत् साधवो वयं तु पश्चाद् भोक्ष्यामहे इति पश्चात्कर्म्म, व्यत्ययेन तु पुरःकर्मेति व्याचक्षते । एतच्च न कल्पते धर्मचारिणां यत एवमेतदर्थं - पश्चात्कर्म्मादिपरिहारार्थं न भुञ्जन्ते निर्ग्रन्थाः, क्व ? इत्याह-गृहिभाजने अनन्तरोदित इति ।।६.५२ । । उक्तो गृहिभाजनदोषस्तदभिधानाच्चतुर्दशस्थानविधिः ।।
आसंदी-पलियंकेसु, मंचमासालएसु वा ।
अणायरियमज्जाणं, आसइत्तु सइत्तु वा ।।६.५३ ।।
(ति) पञ्चदशमाह - आसन्दी - आसनविशेषः, चूडीयक इति प्रसिद्धः । पल्यङ्को मञ्चः । आसामस्त्येन शालते, आसनेषु शोभते आशालकः - अवष्टम्भन - युक्तमासनं,
१. भुञ्जतामिति साधुः । २. भोक्ष्यामह इति युक्तम् ।