SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ १९७ षष्ठम् अध्ययनम् कंसेसु कंसपाएसु, कुंडमोएसु वा पुणो । भुंजतो असणपाणाई, आयारा परिभस्सइ ।।६.५०।। (ति.) उक्तम् अकल्पाख्यं त्रयोदशं स्थानं, चतुर्दशमाह-कांस्येसु-कच्चोलकादिषु । कांस्यपात्रेषु-स्थालादिषु । कुण्डमोदेषु-हस्तिपादाकारमृन्मयभाजनेषु । भुञ्जानः । शुद्धमप्यशनपानादि । आचारात्-साधुसत्कात्। परिभ्रश्यति ।।६.५० ।। (स.) इदानीं चतुर्दस्थानविधिमाह-कंसेसु इति-साधुराचारात्, साधुसम्बन्धिनः परिभ्रश्यति, भ्रष्टाचारो भवति, किं कुर्वन् साधुः ? अशनपानादिकमन्यदोषरहितमपि भुञ्जानः, केषु भाजनेषु भुञ्जान: ?-इत्याह-कांस्येषु कटोरिकादिषु, पुनः कांस्यपात्रीषु तिलकादिषु, कुण्डमोदेषु हस्तिनः पादाकारेषु मृन्मयादिषु, भुञ्जानः ||६.५० ।। (सु.) इदानीं चतुर्दस्थानविधिमाह-कंसेसु'इति, कांसेषु-करोटकादिषु, कांस्यपात्रेषुतिलकादिषु, कुण्डमोदेषु-हस्तिपादाकारेषु मृन्मयादिषु, भुञ्जानोऽशनपानादि तदन्यदोषरहितमपि, आचारात्-श्रमणसम्बन्धिनः, परिभ्रश्यति-अपैतीति ।।६.५० ।। सीओदगसमारंभे, मत्तघोयणछड्डणे । जाई छन्नंति भूयाई, दिट्ठो तत्थ असंजमो ||६.५१।। (ति.) कथम् ? - इत्याह-शीतोदकेन-सचेतनोदकेन कांस्यभाजनधावनारम्भे । अमत्रधावनछर्दने-कुण्डमोदादिक्षालनजलोज्झने । यानि क्षण्यन्ते-हिंस्यन्ते । भूतानिअप्कायादीनि । एष तत्र गृहिभाजने । साधोः असंयमाख्यो दोषः स्वामिना दृष्टः ।।६.५१।। (स.) कथं तेषु भुञ्जानो भ्रष्टाचारो भवेत् ? इत्याह-सीओ इति-गृहिभाजनं कांस्यादिकं, तत्र भोजने भोजनकर्तुः साधोः केवलिना सोऽसंयमो दृष्टः, स का ? यानि तत्र भूतान्यप्कायादीनि छिद्यन्ते हिंस्यन्ते, क्व ? शीतोदकसमारम्भे सचेतनेनोदकेन भाजनस्य धावनारम्भे क्षालनारम्भे, कथं ? कांस्यादि-भाजनेषु श्रमणा भोक्ष्यन्ते, अथवा श्रमणैरेषु भुक्तमिति हेतो जनक्षालनं कुर्वन्ति गृहस्थाः, पुनः कुत्र ? मात्रकधावनोज्झने, कुण्डमोदकादिषु भाजनेषु क्षालनजलत्यागे-ऽसंयमो भवेत्. ।।६.५१ ।।
SR No.022615
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2014
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy