________________
१९६
दशवैकालिकं-टीकात्रिकयुतम् जे नियागं ममायंति, कीयमुद्देसियाहडं | वहं ते समणुजाणंति, इई(इइ) वुत्तं महेसिणा ||६.४८ ।।
(ति.) अकल्पिके दोषमाह-ये-केचिद् द्रव्यसाध्वादयः । नियागं'इति-नित्यमामन्त्रितं पिण्डम् । ममायंति-गृह्णन्ति । क्रीतमौद्देशिकाहृतं च-एतानि क्षुल्लकाचारकथोक्तवत् । वधम्-त्रसस्थावरादिघातम् । ते समनुजानन्ति-दायकप्रवृत्त्यनुमोदनेन । इत्युक्तं महर्षिणाश्रीवीरस्वामिना ।।६.४८।।।
(स.) अथाऽकल्पिके दोषं कथयति-जे इति ये केचन द्रव्यलिगिनो नियागं नित्यमामन्त्रितपिण्डं ममायंति प्रतिगृह्णन्ति, पुनः क्रीतमौद्देशिकमाहृतं च गृह्णन्ति, ते वधं स्थावरादिजीवघातमनुजानन्ति, दातुः प्रवृत्तेरनुमोदनेन, केनेदं कथितम् ?इत्याह-इत्युक्तं महर्षिणा महामुनिना श्रीवर्धमानस्वामिना. ||६.४८ ।।
(सु.) अकल्पिके दोषमाह-जे इति, ये केचन द्रव्यसाध्वादयो द्रव्यलिङ्गधारिणो नियागं ति नित्यमामन्त्रित-पिण्डं ममायंति इति परिगृह्णन्ति, तथा क्रीतमौद्देशिकाहृतमेतानि यथा क्षुल्लकाचारकथायाम् । वधं-त्रसस्थावरादिघातं ते-द्रव्यसाध्वादयः समनुजानन्ति दातृप्रवृत्त्यनुमोदनेनेत्युक्तं महर्षिणा-वर्द्धमानेनेति ।।६.४८ ।।
तम्हा असणपाणाइं, कीयमुद्देसियाहडं | वज्जयंति ठियप्पाणो, निग्गंथा धम्मजीविणो ।।६.४९।।
(ति.) स्पष्टः । नवरम् । स्थितात्मानः-स्थितः संयमे आत्मा येषां ते तथा ||६.४९।।
(स.) यस्मादेवं तस्मात् किं कर्तव्यम् ?-इत्याह-तम्हा इति-तस्मात्कारणान्निर्ग्रन्थाः साधवोऽशनादिकं चतुर्विधमपि सदोषं क्रीतम्, औद्देशिकम्, आहृतं च वर्जयन्ति, किंभूता निर्ग्रन्थाः ? स्थितात्मानः, स्थितो निश्चलत्वेनात्मा धर्मे येषां ते स्थितात्मानः संयमैकजीविन इत्यर्थः, उक्तोऽकल्पः, अकल्पकथनाच्च त्रयोदशः स्थानविधिरप्युक्तः. ।।६.४९।।
(सु.) यस्मादेवं तम्हा इति, तस्मादशनपानादि चतुर्विधमपि यथोदितं क्रीतमौद्देशिकमाहृतं वर्जयन्ति, स्थितात्मानो-महासत्त्वाः, निर्ग्रन्थाः-साधवो, धर्मजीविनः-संयमैकजीविन इति ।।६.४९ ।। उक्तोऽकल्पस्तदभिधानात् त्रयोदशस्थानविधिः ।।