________________
२०१
षष्ठम् अध्ययनम् अबोधिर्मिथ्यात्वं तदेव फलं यस्य स तम्. ।।६.५६ ।।
(सु.) इदानीं षोडशस्थानमधिकृत्याह-गोचरग्ग...इति, गोचराग्रप्रविष्टस्यभिक्षाप्रविष्टस्येत्यर्थः, निषद्या यस्य कल्पते, गृह एव निषीदनं यः समाचरति साधुरितिभावः, स खलु एनमीदृशं वक्ष्यमाणलक्षणं अनाचारमापद्यते-प्राप्नोति, अबोधिकं-मिथ्यात्वफलमिति ।।६.५६ ।।
विवत्ती बंभचेरस्स, पाणाणं च वहे वहो । वणीमगपडिग्घाओ, पडिकोहो अगारिणं ।।६.५७।।
(ति.) अनाचारमाह-विपत्तिब्रह्मचर्यस्य-चिरदर्शनेन मिथोऽनुरागसम्भवात्, तत्र स्त्रियः चिर-संसर्गात्, स्त्रिया आधाकर्मादिकरणात् । प्राणानां च वधे वधः स्यात्आद्यव्रतविघातः स्यात् । साधौ गृहोपविष्टे वनीपकप्रतीघातो ग्रासानाप्तिः । साध्वाक्षिप्तत्वाच्च स्त्रियः प्रति क्रोधः अगारिणाम्-तत्स्वजनानां तद्भतुश्च ।।६.५७।।
(स.) तमेवानाचारमाह-विवत्ती'इति-गृहस्थगृहे निषद्याकरण एतेऽनाचारा इति सम्भावनया ब्रह्मचर्यस्य विपत्ति शो भवतिः, कुतः ? आज्ञाखण्डनदोषात् प्राणिनां च वधे वधो भवति । तथासम्बन्धादाधाकर्मादिकरणेन. तथा वनीपकप्रतिघातो भवेत् - तदाक्षेपेणा-ऽऽदित्साभिधानादिना च पुनरगारिणः प्रतिक्रोधो भवेत् । तत्स्वजनानां निषद्यायास्तस्याश्च तथाक्षेपदर्शनेन. ||६.५७।।
(सु.) अनाचारमाह-विवत्ती'इति, विपत्तिर्ब्रह्मचर्यस्य-आज्ञाखण्डनादोषतः साधुसमाचरणस्य, प्राणिनां च वधे वधो भवति, तथा सम्बन्धादाधाकादिकरणेन, वनीपकप्रतीघातः तदाक्षेपणादित्साभिधानादिना, प्रतिक्रोधश्चागारिणां तत्स्वजनानां च स्यात्, तदाऽऽक्षेप-दर्शनेनेति ।।६.५७।।
अगुत्ती बंभचेरस्स, इत्थीओ आवि संकणं । कुसीलवड्डणं ठाणं, दूरओ परिवज्जए ।।६.५८ ।।
(ति.) तथा अगुप्तिब्रह्मचर्यस्य-चिरावस्थानेन योषिदिन्द्रियाद्यवलोकनात् । उत्फुल्ल-लोचनायाः पश्यन्त्या स्त्रीतोऽपि शङ्का स्यात् । अतः कुशीलवर्धनं गृहनिषदनं दूरतः परिवर्जयेत् ।।६.५८ ।।