________________
दशवैकालिकं- टीकात्रिकयुतम्
१९०
दिशि तथा प्रतीच्यां पश्चिमायां दिशि ऊर्ध्वम्, 'अणुदिसामवि' सप्तम्यर्थे षष्ठी, अध इत्यधोदिशि, पुनर्दक्षिणतश्चापि [ उत्तरतोऽपि ] दाह्यं वस्तु दहति भस्मसात्करोति, सर्वासु दिक्षु विदिक्षु च जीवसंहारं करोतीत्यर्थः ।।६.३३ ।।
(सु.) एतदेव स्पष्टयन्नाह - पाईणं' इति, प्राच्यां प्रतीच्यां वापि पूर्वायां पश्चिमायां चेत्यर्थः । ऊर्ध्वमनुदिक्ष्वपि "सुपां सुपो भवन्ति' [ [] इति, सप्तम्यर्थे षष्ठी, विदिक्ष्वपीत्यर्थः । अधो दक्षिणतश्चापि दहति - दाह्यं भस्मीकरोति, उत्तरतोऽपि च, सर्वासु दिक्षु विदिक्षु च दहतीति ।।६.३३ ।।
भूयाण एसमाघाओ, हव्ववाहो न संसओ ।
तं पईवयावट्ठा, संजया किंचि नारभे ।।६.३४ ।।
(ति.) यतश्चैवं ? अतः भूतानाम्-स्थावरादीनाम् । एषः आघातहेतुत्वाद् आघातः । हव्यवाहः-अग्निः । न संशयः । तं प्रदीपार्थम् - दीपनिमित्तम् । प्रतापार्थम्प्रकर्षेण तापनार्थं शीतापनयनार्थम् । संयताः किञ्चिन्नारभन्ते ।।६.३४ ।।
-
(स.) यत एवं ततः किं कर्तव्यमित्याह - भूआणं' इति भूतानां स्थावर - त्रसानामेष हव्यवाहो वह्निराघातो न संशयः, एवमेव तदाघात एवेति भावः, ततः कारणात् संयतास्तं वह्नि प्रदीपार्थं प्रकाशकरणाय प्रतापनार्थं च शीतनाशाय किञ्चित् सङ्घट्टनादिनापि नारभन्ते साधुधर्मनाशनभीत्या. । ।६.३४ । ।
(सु.) यतश्चैवम् ? - अतः भूयाणं' इति, भूतानां - स्थावरादीनां एष आघातः आघातहेतुत्वादाघातः, हव्यवाहः अग्निः न संशय इत्येवमेवैतद् आघात एवेतिभावः । येनैवं तेन तं हव्यवाहं प्रदीप - प्रतापनार्थं - आलोक- शीतापनोदार्थं संयताः साधवः किञ्चित् सङ्घट्टनादिनाऽपि नारभन्ते, संयतत्वापगमनप्रसङ्गादिति ।।६.३४।।
तम्हा एयं वियाणित्ता, दोसं दुग्गइवड्डणं ।
तेउकायसमारंभं, जावज्जीवाइ वज्जए ।।६.३५ ।।
(ति) प्राग्वत् ।।६.३५।।
(स.) यस्मादेवं ततः किं कर्तव्यमित्याह - तम्हा... इति - पूर्ववदुक्तिलापनिका, अर्थश्च कार्यः, नवरमग्निकायनाम ग्राह्यम्. ।।६.३५ ।।