________________
षष्ठम अध्ययनम्
१९१
(सु.) यस्मादेवं तम्हा इति, व्याख्या पूर्ववत् ।।६.३५।। अनिलस्स समारंभ, बुद्धा मन्नति तारिसं । सावज्जबहुलं चेयं, नेयं ताईहि सेवियं ।।६.३६ ।।
(ति.) उक्तो नवमस्थानविधिः, दशममाह-अनिलस्य-वायोः । समारम्भम्तालवृन्तादिभिः करणम् । बुद्धाः-जिनाः । मन्यन्ते । तादृशम्-वल्यारम्भसमम् । सावज्जबहुलं चैतमिति । नैनं तायिभिः । सेवितम्-आचरितम् । इत्यपि बुद्धा मन्यन्ते, इत्यत्रैव सम्बन्धः ||६.३६ ।।। __(स.) इति नवमस्थानविधिः कथितः, अथ दशमस्थानविधिः कथ्यतेअणिलस्स'इति-बुद्धास्तीर्थकरा अनिलस्य वायुकायस्य समारम्भं व्यजनादिभिः करणं तादृशमग्निकायसमारम्भसदृशं मन्यन्ते जानन्ति, तथैवं वायुकायसमारम्भं सावद्यबहुलं पापभूयिष्ठमितिकृत्वा सर्वकालमेव न एनं तादृभिर्जीवरक्षाकारकैः साधुभिः सेवितमाचरितमिति मन्यन्ते बुद्धा एव. ।।६.३६ ।।
(सु.) उक्तो नवमस्थानविधिः, साम्प्रतं दशममाश्रित्याह-अणिलस्स-अनिलस्यवायोः समारम्भ-तालवृन्तादिभिः करणं, बुद्धाः-तीर्थकरा मन्यन्ते-जानन्ति तादृशंजाततेजःसमारम्भसदृशं, सावद्यबहुलं-पापभूयिष्ठं चैतमितिकृत्वा सर्वकालमेव नैनं त्रातृभिः-सुसाधुभिः सेवितं-आचरितं, मन्यन्ते बुद्धा एवेति ।।६.३६ ।।
तालियंटेण पत्तेण, साहाविहुयणेण वा । न ते विइउमिच्छंति, वियावेऊण वा परं ।।६.३७।। (ति.) एतदेव स्पष्टयन्नाह-[तालि...] स्पष्टः ||६.३७।।
(स.) एतदेव स्पष्टीकुर्वन्नाह-तालिअं...इति-ते साधवस्तालवृन्तेन पत्रेण शाखाविधूननेन वा कृत्वात्मनात्मानं वीजितुं नेच्छन्ति, नापि तालवृन्तादिभिः परैरात्मानं वीजयन्ति, नापि वीजयन्तं परमनुमन्यन्ते, तालवृन्तादीनां स्वरूपं यथा षड्जीवनिकायां व्याख्यातं तथा ज्ञेयम्. ||६.३७ ।।
(सु.) एतदेव स्पष्टयति-तालियंटेण'इति, तालवृन्तेन पत्रेण शाखाविधूननेन वेत्यमीषां स्वरूपं,यथा षड्जीवनिकायिकायां, न ते साधवो वीजितुमिच्छन्त्यात्मानमात्मना,