SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ षष्ठम् अध्ययनम् १८९ (सु.) अधुनाऽष्टमस्थानविधिमधिकृत्योच्यते-आउक्कायं'इत्यादि, सूत्रत्रयमप्कायाभिलापेन ज्ञेयं ततश्चायमप्युक्त एव ।।६.२९-३१।। जायतेयं न इच्छंति, पावगं जलइत्तए । तिक्खमन्नयरं सत्थं, सव्वओ वि दुरासयं ।।६.३२।। (ति.) उक्तमष्टमं नवमाह-जाततेजसं पावकम्-अग्निम् । ज्वालयिम्-उत्पादयितुं, वृद्धिं नेतुम् । न इच्छन्ति । तीक्ष्णम् अन्यतरद्-एकं पृथ्व्यादीन् प्रति । शस्त्रं सर्वतोऽपि-समन्तादपि | ज्वालारूपत्वाद् दुराश्रयम्-अनाश्रयणीयमित्यर्थः ।।६.३२।। (स.) साम्प्रतं नवमस्थानविधिं कथयति-जाय...इति-साधवः जाततेजसमग्निकार्य मनःप्रभृतिभिरपि ज्वलयितुमुत्पादयितुं वृद्धि प्रापयितुं नेच्छन्ति, किंभूतं जाततेजसं ? पापकं पाप एव पापकस्तं, कथं ? प्रभूतजीवसंहारकारकत्वात्, पुनः किंभूतं जाततेजसं? तीक्ष्णं छेदकरणस्वरूपमन्यतरं शस्त्रमेकधारादिशस्त्ररूपं न, किन्तु सर्वतो धारशस्त्रम्, अत एव सर्वतोऽपि दुराश्रयं सर्वतोधारत्वेनानाश्रयणीयमित्यर्थः ||६.३२।। (सु.) सांप्रतं नवमस्थानविधिमाह-जायतेयं इति-जाततेजाः-अग्निः, तं जाततेजसं, नेच्छन्ति, मनःप्रभृतिभिरपि पापकं पाप एव पापकः, तं, प्रभूतसत्त्वापकारित्वेनाशुभमित्यर्थः । किं नेच्छन्तीत्याह-ज्वालयितुं-उत्पादयितुं वृद्धिं वा नेतुं, किंविशिष्टमित्याह-तीक्ष्णंछेदकरणात्मकं, अन्यतरशस्त्रं-सर्वशस्त्रं, एकधारादिशस्त्रव्यवच्छेदेन सर्वतोधारशस्त्रकल्पमिति भावः । अत एव सर्वतोऽपि दुराश्रयं सर्वतोधारत्वेनानाश्रणीयमिति ।।६.३२।। पाईणं पडिणं वा वि, उड्डे अणुदिसामवि | . अहे दाहिणओ वा वि, दहे उत्तरओ वि य ।।६.३३।। (ति.) एतदेव स्पष्टयनाह-प्राचीनं प्रतीचीनं वाऽपि-पूर्व-पश्चिमयोर्यदस्ति । ऊर्ध्वम्-ऊर्ध्वदिशि । अनुदिक्षु-सप्तम्यर्थे षष्ठी, विदिक्ष्वपीत्यर्थः । अधो, दक्षिणतश्चापि दहति दाह्यम् । उत्तरतोऽपि च-सर्वासु दिक्षु विदिक्षु वा आसन्नं दाह्यं दहतीत्यर्थः ||६.३३।। (स.) एतत् एव स्पष्टं कुर्वन्नाह-पाइणं'इति-अग्निरिति शेषः । प्राच्या पूर्वस्यां
SR No.022615
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2014
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy