________________
१८८
दशवैकालिकं-टीकात्रिकयुतम् विविधान् प्राणिनो-वींद्रियादीन् चशब्दात् स्थावरांश्चाप्कायादीन्, तांश्च चाक्षुषानचाक्षुषांश्च-चक्षुरिन्द्रियग्राह्यानग्राह्यांश्चेति ।।६.२७ ।।
तम्हा एयं वियाणित्ता, दोसं दुग्गइवड्डणं ।।। पुढविकायसमारंभ, जावज्जीवाइ वज्जए ।।६.२८।।
(ति.) निगमयन्नाह-तम्हा...] स्पष्टः | नवरम् । समारम्भम्-घट्टन-मर्दनादिकम् ||६.२८।। __ (स.) यस्मादेवं, ततः किं साधुना कर्तव्यम् ? इत्याह-तम्हा'इति-यस्मादेवं तस्मात् पृथिवीकायसमारंभमालेखनादिना यावज्जीवं साधुर्वर्जयेत्, किं कृत्वा ? एतं पूर्वोक्तं दोषं विज्ञाय पृथिव्याश्रितजीवहिंसालक्षणं दूषणं ज्ञात्वा, किंभूतं दोषं ? दुर्गतिवर्धनं संसारवर्धनम्. ||६.२८।।
(सु.) यस्मादेवं तम्हा इति, तस्मादेवं विज्ञाय दोषं तत्तदाश्रितजीवहिंसादिलक्षणं दुर्गतिवर्धन-संसारवर्धनं पृथिवीकायसमारम्भमालेखनादि यावज्जीवमेव वर्जयेदिति विधिः ||६.२८ ।।
आउक्कायं न हिंसंति, मणसा वयस कायसा | तिविहेण करणजोएणं, संजया सुसमाहिया ||६.२९।।
आउक्कायं विहिंसंतो, हिंसई उ तयस्सिए । तसे य विविहे पाणे, चक्खुसे य अचक्खुसे ।।६.३०।।
तम्हा एयं वियाणित्ता, दोसं दुग्गइवड्डणं । आउक्कायसमारंभ, जावज्जीवाइ वज्जए ।।६.३१।। (ति.) उक्तः सप्तमस्थानविधिः, अष्टममाह-त्रयमपि प्राग्वत् ||६.२९-३१।।
(स.) सप्तमस्थानविधिरुक्तः, अथाष्टमस्थानविधिः कथ्यते-आउकायमिति-इदं गाथात्रयं, पृथिवीकायगाथात्रयं यथा पूर्वं व्याख्यातं तथा व्याख्येयं, नवरं तत्र पृथिवीनाम्ना, अत्राप्कायनाम्ना. ||६.२९-३१।।