________________
१८५
षष्ठम् अध्ययनम्
भोजने तत्तथा, द्रव्यत एकं - एकसंख्यानुगं भावत एकं कर्मबन्धाभावाद-द्वितीयं, तद् दिवस एव रागादिरहितस्यान्यथा भावतः एकत्वाभावादिति ।।६.२२ ।।
ति
हुमा पाणा, तसा अदुव थावरा ।
जाई राओ अपासन्तो, कहमेसणियं चरे ? ।।६.२३ ।।
(ति) रात्रिभोजने दोषमाह - सन्ति इमे - प्रत्यक्षाः । प्राणाः । त्रसा अथवा स्थावराः, जाइं‘इति-ये सूक्ष्मा जीवाः । प्राकृतत्वाल्लिङ्गव्यत्ययः । " यत्तदोर्नित्यसम्बन्धात्" तानिति गम्यम् । तान् जीवान् रात्रावपश्यन् कथमेषणीयं चरेत्-रात्रावीर्याशुद्धिरेव नास्ति ।।६.२३।।
(स.) अथ रात्रिभोजने प्राणानामतिपातसम्भवेन कर्मबन्धेन सह सद्वितीयतां दर्शयति-संति...इति-इमे एते प्रत्यक्षमुपलभ्यमानस्वरूपाः प्राणिनः सन्ति जीवा वर्तन्ते, किंविशिष्टाः प्राणिनः ? सूक्ष्माः श्लक्ष्णाः, के ते ? सा द्वीन्द्रियादयः अथवा स्थावराः पृथिव्यादयः, यान् प्राणिनो रात्रौ चक्षुषा अपश्यन् साधुः कथमेषणीयं चरिष्यति भोक्ष्यते ? असम्भव एषणीयस्य रात्रौ कथं ? सत्त्वानां घातात् ।।६.२३ ।।
1
(सु.) रात्रिभोजने प्राणातिपातसम्भवेन कर्मबन्धसद्वितीयतां दर्शयति-संतिमे 'इति, सन्त्येते-प्रत्यक्षोपलभ्यमानस्वरूपाः सूक्ष्माः- श्लक्ष्णाः, प्राणिनो - जीवाः, त्रसा-द्वीन्द्रियादयः, अथवा स्थावराः-पृथिव्यादयो यान् प्राणिनो रात्रावपश्यन् चक्षुषा कथमेषणीयंसत्त्वानुपरोधेन चरिष्यति - भोक्ष्यते च, असम्भव एव रात्रावेषणीयचरणस्येति ।।६.२३ ।।
उदउल्लं बीयसंसत्तं, पाणा निवडिया महिं ।
दिया ताइं विवज्जिज्जा, राओ तत्थ कहं चरे ।।६.२४ ।।
(ति.) पुनस्तद्दोषमाह - उदकार्द्रम् - बीजसंसक्तं- बीजमिश्रमोदनादि, अथवा बीजानि पृथक् संसक्तं-संसक्तिमद् धान्यादि । प्राणाः- सम्पातिमादयः । मह्याम् - निशि निपतिताः सम्भवन्ति। दिवा तानुकार्द्रादीन् वर्जयेत्, रात्रौ तत्र - अचक्खुर्विषये । कथं चरेत्
।।६.२४।।
(स.) एवं रात्रिभोजने दोषं कथयित्वा ग्रहणगतं दोषमाह - उद...इतिएतान्युदकार्द्रादीनि दिवा पापभीरुश्चक्षुषा पश्यन् विवर्जयेत् परं रात्रौ तु तत्र कथं