________________
१८६
दशवैकालिकं-टीकात्रिकयुतम् चरति संयमस्यानुपरोधेन ? असम्भव एव शुद्धचरणस्य, कानि तान्युदकाादीनि ? इत्याह-उदकाई पूर्ववत्, एकग्रहणेन तज्जातीयानां सस्निग्धादीनां ग्रहणं, तथा बीजसंसक्तं बीजेन संसक्तं मिश्रं तदोदनादिकमिति शेषः, अथवा बीजानि पृथग्भूतान्येव, संसक्तं चा-ऽऽरनालाद्यपरेण मिश्रं, तथा प्राणिनः संपातिमप्रभृतयो मह्यां पृथिव्यां निपतिताः संभवन्ति. तत उदकार्द्रादीनि रात्रावनालोकनेन वर्जयितुमशक्यत्वेन विशेषतः साधोश्चरणाभावः ।।६.२४ ।।
(सु.) एवं रात्रिभोजने दोषमभिधायाधुना ग्रहणगतमाह-उदउल्लंइति, उदकाढूपूर्ववदेकग्रहणे तज्जातीयग्रहणात् सस्निग्धादि-परिग्रहः । तथा बीजसंसक्तं-बीजैः संसक्तं-मिश्रमोदनादीति गम्यते । अथवा बीजानि पृथग्भूतान्येव संसक्तं चाऽऽरनालाद्यपरेणेति । तथा प्राणिनः संपातिमप्रभृतयो निपतिता मह्यां-पृथिव्यां सम्भवन्ति । ननु दिवाप्येतत् सम्भवत्येव ?, सत्यं, किंतु परलोकभीरुश्चक्षुषा पश्यन् दिवा तान्युदकार्द्रादीनि विवर्जयेत्, रात्रौ तु तत्र कथं चरेत् संयमानुपरोधेन ? असम्भव एव शुद्धचरणस्येति ।।६.२४।।
एयं च दोस दतॄणं, नायपुत्तेण भासियं । सव्वाहारं न भुंजंति, निग्गंथा राइभोयणं ।।६.२५।।
(ति.) इदमुपसंहरन्नाह-एतं दोषम्-प्राणिहिंसारूपं, आत्मविराधनालक्षणम् च दृष्ट्वा ज्ञातपुत्रेण भाषितम् । सर्वाहारम्-चतुर्विधमप्यशनादि न भुञ्जन्ते निग्रन्था:साधवः । रात्रिभोजनम् ।।६.२५।।
(स.) अथैनमधिकारं पूर्णं कुर्वन्नाह-एअं...इति-निर्ग्रन्थाः साधवः सर्वाहारं चतुर्विधमप्यशनादिकमाश्रित्य रात्रिभोजनं न भुञ्जते, किं कृत्वा ? एतं पूर्वोक्तं प्राणिहिंसारूपं चशब्दादन्यमात्मविराधनादिलक्षणं दोषं चक्षुषा दृष्ट्वा, किंभूतं दोष ? ज्ञातपुत्रेण श्रीमहावीरदेवेन भगवता भाषितं कथितम् ।।६.२५।।
(सु.) उपसंहरन्नाह-एयं च'इति, एतदनन्तरोदितं प्राणिहिंसारूपं चशब्दादन्यं चात्मविराधनादिलक्षणं च दोषं दृष्ट्वा मतिचक्षुषा ज्ञातपुत्रेण भगवता भाषितं-उक्तं, सर्वाहार-चतुर्विधमप्यशनादि-लक्षणमाश्रित्य न भुञ्जन्ते निर्ग्रन्थाः-साधवो रात्रिभोजनमिति ||६.२५।।