________________
दशवैकालिकं-टीकात्रिकयुतम्
विदितवस्तुतत्त्वाः साधवः, संरक्षणपरिग्रह इति संरक्षणाय षण्णां जीवनिकायानां वस्त्रादिपरिग्रहे सत्यपि नाचरन्ति ममत्वमिति योगः । किंचानेन ?, ते हि भगवन्तः, अप्यात्मनोऽपि देह इति - आत्मनो धर्मकायेऽपि विशिष्टप्रतिबन्धसंगतिं न कुर्वन्ति, ममत्वमात्मीयाभिमानं वस्तुतत्त्वावबोधात् तिष्ठतु तावदन्यत्, ततश्च देहवदपरिग्रह एवेति ।।६.२१।।
१८४
अहो निच्चं तवाकम्मं, सव्वबुद्धेहिं वन्नियं ।
जाय लज्जासमावेत्ती, एग्गभत्तं च भोयणं ।। ६.२२ । ।
(ति.) उक्तः पञ्चमस्थानविधिः, षष्ठमह - अहो - विस्मये । नित्यम् - नित्यकृत्यं । तपःकर्म-तपःप्रधानं कर्म क्रियाकलापः । सर्वबुद्धैः सर्वैर्जिनैः । वर्णितम् - कथितम् । या च लज्जा प्रतिपन्नाऽनिर्वाहे व्रीडा । समा-समभावा, वृत्तिः- वर्तनम् । एकभक्तं च भोजनम् एकम्-एकवेलं, भक्तम् - अशनखाद्यरूपं, यत्र भोजने तदेकभक्तं, न पुनः स्वादिमजले अप्येकवेलं, ते अपि दिवसे एव न रात्रौ ।।६.२२ ।।
-
(स.) उक्तः पञ्चमः स्थानविधिः, अधुना षष्ठस्थानविधिमाह - अहो इति - अहो इत्याश्चर्ये, तपःकर्म तपोऽनुष्ठानं सर्वतीर्थकरैर्वर्णितं देशितं, किंविशिष्टं तपःकर्म ? नित्यमपायस्याभावेन गुणवृद्धिसंभवादप्रतिपात्येव, किंविशिष्टं तप ? इत्याह-या च वृत्तिर्वर्त्तनं देहपालना, किम्भूता वृत्तिः ? लज्जासमा लज्जा संयमस्तेन समा सदृशी तुल्या, संयमाविरोधिनीत्यर्थः । च पुनरेकं भक्तं भोजनमेकभक्तं द्रव्यतो भावतश्च यस्मिन् भोजने तत्तथा, तत्र द्रव्यत एकं एकसङ्ख्यानुगतं, भावत एकं कर्मबन्धस्याभावेनाद्वितीयं तद् दिवस एव रागादिरहितस्य. अन्यथा भावत एकत्वस्याभावादिति ।।६.२२ ।।
(सु.) उक्तः पञ्चमस्थानविधिः, अधुना षष्ठमधिकृत्याह - अहो' इति, अहो नित्यं तपःकर्मेति, अहो-विस्मये नित्यं नाम - अपायाभावेन तदन्यगुणवृद्धिसम्भवादप्रतिपात्येव तपःकर्म्म- तपोऽनुष्ठानं, सर्वबुद्धैः सर्वतीर्थकरैर्वर्णितं-देशितं किंविशिष्टम् ? - इत्याहयावल्लज्जासमा वृत्तिः - लज्जा - संयमः तत्समा-सदृशी तुल्या संयमाविरोधिनीत्यर्थः, वर्त्तनं वृत्तिः - देहपालना, एकभक्तं च भोजनं एकं भक्तं - द्रव्यतो भावतश्च यस्मिन्
१. ०६-१०.१२ ।। २. ०वि. ६-१२ ।।