________________
१८३
षष्ठम् अध्ययनम् कुतः? बन्धहेतुत्वात्. शिष्यः प्राह-ननु वस्त्रादीनामभावेऽपि यदि मूर्छा तदा वस्त्रादिसद्भावे सति कथं न मूर्छा ? उच्यते, साधूनां सम्यग्बोधेन मूर्छाया बीजभूतस्याबोधस्योपघातात् ।।६.२० ।।
(सु.) यतश्चैवं ? - अतः-न सो'इति, नासौ निरभिष्वङ्गस्य वस्त्रधारणादिलक्षण: परिग्रह उक्तो बन्धहेत्वभावात्, केन ?, ज्ञातपुत्रेण-ज्ञात-उदारक्षत्रियः सिद्धार्थः, तत्पुत्रेण वर्धमानेन, त्रात्रा-स्वपरपरित्राणसमर्थेन, अपि तु मूर्छा-असत्स्वपि वस्त्रादिष्वभिष्वङ्गः परिग्रह उक्तो बन्धहेतुत्वात्, अर्थतस्तीर्थकरेण, ततोऽवधार्य इत्येवमुक्तो महर्षिणा-गणधरेण सूत्रे शय्यंभवेनेति ||६.२० ।।
सव्वत्थुवहिणा बुद्धा, संरक्खणपरिग्गहे | अवि अप्पणो वि देहमि, नायरंति ममाइयं ।।६.२१।।
(ति.) प्रायो वस्त्राद्यभावेऽपि तृष्णया मूर्छा भवति । [वस्त्रादि] भावे साधूनां कथं न मूर्च्छत्याह-सर्वत्र-उचितक्षेत्रे काले वा । उपधिना-आगमोक्तेन वस्त्रादिना सतापि, बुद्धा-ज्ञाततत्त्वाः साधवः, संरक्षणाय-षण्णां जीवनिकायानां, वस्त्रादिपरिग्रहः संरक्षणपरिग्रहः । तस्मिन्, एकोऽपि शब्दश्चार्थे, ततो न केवलं संरक्षणपरिग्रहे आत्मनोऽपि च देहे, नाचरन्ति ममायितम्-ममत्वम् ।।६.२१।।
(स.) सव्व'इति-बुद्धा यथावद् ज्ञाततत्त्वाः साधवः संरक्षणपरिग्रहे संरक्षणाय षण्णां जीवनिकायानां परिग्रहे सत्यपि नाचरन्ति ममत्वमित्युक्तियोजना, केन ? सर्वत्रोपधिना, सर्वत्र योग्ये क्षेत्रे काले चोपधिनागमोक्तेन वस्त्रादिना, कुतः ? ते परिग्रहे वस्त्रादिरूपे ममत्वं न कुर्वन्तीत्याह-यतस्ते भगवन्त आत्मनोऽपि देह आत्मनो धर्मकायेऽपि ममत्वमात्मीयाभिमानं विशिष्टप्रतिबन्धसङ्गतिं न कुर्वन्ति वस्तुनस्तत्त्वस्य ज्ञानात्, किंभूतेन वस्त्रादिना ? तिष्ठतु दूरे तावदन्यत् सर्वं, देहवत् परिग्रहेऽपि न ममत्वमात्मीयाभिमानं विशिष्टप्रतिबन्धसङ्गतिं न कुर्वन्ति ।।६.२१।।
(सु.) आह-वस्त्राद्यभावभाविन्यपि मूर्छा कथं वस्त्रादिभावे साधूनां न भविष्यति ?, उच्यते, सम्यग्बोधेन तद्बीजभूताबोधोपघाताद्, आह च-सव्वत्थ...इति, सर्वत्रउचिते क्षेत्रे काले च, उपधिनाऽऽगमोक्तेन वस्त्रादिना सहापि बुद्धा-यथावद्